SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः अकृते इटि तेन सिध्येत्, अनेन तु लोपवचनेन लोपस्य कृताकृतप्रसङ्गित्वमिति नित्यत्वादकृत एवेटि लोपोऽयं स्यादितीड्ग्रहणमिति स्थितम्।।८९१। [क० च०] निष्ठे०। निष्ठायामिट निष्ठेट निष्ठाविषय इत्यर्थः। न तु निष्ठायां परत इति परसप्तमी, असार्वधातुकस्यावयवत्वेन विधानात्। न तु तस्मिन् परत इड् विधीयते। निष्ठाया इट् निष्ठेट् इति षष्ठीसमासपक्षे देश्यमेव नास्ति। वररुचिमते इन इति सामान्यनिर्देशादस्त्यर्थे विहितस्येनोऽपि लोप: स्यात्। यथा दण्डीवाचरति इत्यायिलोपे दण्डितवान्। स्वमते तु आयिलोपदर्शनं नाद्रियते इति नेदमुदाहरणम्, किन्तु हेतुविहितस्वार्थविहितानामविहितानां त्रयाणामुदाहरणमुचितमिति। तत्राद्ययोवृत्तावुदाहरणम्, अन्त्यस्य तु बोद्धव्यम्। यथा दण्डमकरोद् दण्डितवान् इति। इटीति किमिति। तथाऽनिटि निष्ठायामनेन तावन्न भवति इनो लोप: कारितस्येत्यादिना कथन स्यात्? नैवम्। अस्य व्यावृत्तिबलात् पूर्वेण प्राप्तोऽपि लोपो बाध्यते। वेटामित्यादि। तथा 'आगमादेशयोरागमो विधिर्बलवान्' (का० परि० ४०) इति न्यायाद इड वा प्राग भवति ततो लोप इति चेत् कारितलोपे एव नित्यत्वादग्रतो भविष्यति। अथ आगमेन- नित्यं कारितलोपो बाधिष्यते? नैवम्। नित्यानित्ययोरिति बलाबलम्। आगमादेशयोरिति तु परिभाषा, ततश्च बलाबलेन परिभाषा बाध्यते, न तु परिभाषया बलाबलमिति न दोषः। अथ 'संज्ञपित:' इत्यत्रापि प्राग् इनो लोपे दूषणम्, तथा 'पाचितः' इत्यत्र तत् कथं तद् विहाय पाचितः इति दर्शितम्? सत्यम्। यद्यत्र प्राक् कारितलोपे ज्ञप्त इति स्यात् तदा "दान्तशान्त०" (४।६।१०) इत्यादिना विकल्पेन ज्ञप्तनिपातनमनर्थकमनेनैव नित्यं सिद्धत्वात्। तस्मात् तेन विकल्पेन निपातनबलात्। नात्र कारितलोपे इट: प्रागिति। यद् वा इड्ग्रहणस्य बहु प्रत्युदाहरणं दर्शितम्, अन्यथा संज्ञपित इत्यत्रैव वेड्ग्रहणस्य प्रयोजनमेतत् शिष्यभ्रान्तिः स्यात्। अथ तथापि ‘पाचितः' इत्यत्रापि न दूषणम्। इटोऽपि विद्यमानत्वात् कृताकृतप्रसङ्गित्वेन न वाच्यम्। इनो लोपे एकस्वरत्वात् “पचिवचि०" (३।७।१८) इत्यादिना प्रतिषेधात् कथमिटो नित्यता, तत्र विहितविशेषणबलान्नात्र "पचिवचि०" (३।७।१८) इत्यादिना इट: प्रतिषेधः। इदं तु इनन्तात् पचेर्विहितमसार्वधातुकमिति? सत्यम्। "वसतिघसेः सात्" (३।७।२९) इत्यत्र घसेरुपादानाद् व्यञ्जनान्तधातोर्विहितविशेषणं नास्तीति। अन्यथा अदेः स्थाने घसेर्विधानाद् अदद्वारेणैव विहितविशेषणमाश्रित्य निषेधो भविष्यति किं घस्पाठेन? अत एव 'जग्धः, जग्धवान्' इत्यत्र सन्निपातेत्यादिना सिद्धान्तान्तरं दत्तमिति, यदि सादृश्यात् सर्वादेशे विहितविशेषणं नास्तीत्यनया प्रणाल्या घस्ग्रहणं ज्ञापकमित्युच्यते तदा संज्ञपित इत्यत्र फलमिड्ग्रहणस्य बोध्यम्। अत्रापि "दान्तशान्त०" (४।६।१०) इत्यादिना निपातनसामर्थ्यमित्युच्यते तदा सुखार्थम्। पञ्जिका इटि कृते इति। तेन अत एवेड्ग्रहणान्नित्यमपि लोपं बाधित्वा इट्
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy