SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ७२ कातन्त्रव्याकरणम् [दु० टी०] निष्ठे०। निष्ठायामिट निष्ठेट्। विषयसप्तमीयम् । सम्बन्धे षष्ठी वा समस्यते इति इन इति शब्दसाम्याद्धेतुविहितस्य स्वार्थिकस्य च लोप इत्याह-हारित इत्यादि। इनन्तं सर्वमनेकस्वरम् इत्यनिड् निष्ठायां नास्तीत्याह-इटीत्यादि। येषामिड विभाषया तेषां निष्ठायां नित्यम् इटप्रतिषेध इति । अनिड् निष्ठायामपि कारितलोप: स्याद् इतीग्रहणम्, नैवम्, "न डीश्वीदनुबन्धवेटाम्'' (४।६।९०) इति प्रतिषेधे "अर्तीणघसैकस्वराताम् इड्वन्सौ'' इत्यत: एकविभक्तियुक्तमप्येकस्वरग्रहणं स्मर्यते, ज्ञपिरनेकस्वर इतीनो लोपे कृते इडेवात्र श्रूयते इति तर्हि ‘पाचितः' इति न सिध्यति । कारितलोपश्चेट प्राप्नोति। ततः परत्वान्नित्यत्वाच्च कारितलोपे एकदेशविकृतस्यानन्यवद्भावात् पचिरेवात्र गृह्यते। तत: "पचिवचि०" (३।७।१८) इत्यादिना इटप्रतिषेधोऽनिट निष्ठायां कारितलो पश्च स्याद् इति श्लोकेनाह-वटामित्यादि। किञ्च दान्तशान्तपूर्णदन्तस्पष्टच्छन्नज्ञप्ताश्चेनन्ता वा निपात्यन्ते। तत्रेटपक्षे कारितलोपे कृते इट् श्रूयते ज्ञप्तो ज्ञपित इति। यद्येवं "कारितस्यानामिड् विकरणे" (३।६।४४) इत्यत्रेड्ग्रहणं न कर्तव्यम्, निष्ठायामेवेट नान्यस्मिन् प्रत्यये इटीति नियमात्। विपरीतनियमो नास्ति इट्येव निष्ठायां नानिीति। इनन्तस्य सेटो निष्ठायाः सम्भवात्? सत्यम्, भित्रकर्तृत्वात् तत्रेड्ग्रहणं कृतमिति।।८९१॥ [वि० प०] निष्ठे०। इनन्तस्यानेकस्वरत्वान्नानिट निष्ठा काचिदस्ति। ततः किमिड्ग्रहणेनेत्याहइटीत्यादि। इहानिटि निष्ठायां मा भूदिति। अनिट्त्वमेवाह-"इवन्तर्द्ध०" (३।७।३३) इत्यादिना सनि वेट्त्वात् "न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः" (४।६।९०) इति वचनानिष्ठायामित्यनिटप्रतिषेध इति। तदयुक्तम्, "अर्तीणघसैकस्वराताम्" (४।६।७६) इत्यतः एकस्वराधिकारस्मरणान्न डीश्वीत्यादावेकस्वराणामेव वेटामिटप्रतिषेधात् 'संज्ञपित:' इत्यत्र इडस्त्येव । इनन्तो हि ज्ञपिरनेकस्वर इत्येषापि सेडेव निष्ठा। यदपि ज्ञप्त इति "दान्तशान्त०' (४।६।१०) इत्यादिनिपातनादनिट्यपि निष्ठायामिनो लोपेन भवितव्यमेवेत्यनर्थकमिडग्रहणम। नानर्थकम् इटि कृते लोपे यथा स्याद् अकृते मा भूदित्येतदर्थम्।अन्यथा 'पाचितः' इत्यत्र नित्यत्वात् प्रागिनो लोपे सति एकदेशविकृतस्यानन्यवद्भावात् स एवायं पचिरे कस्वर इति "पचिवचि.'' (३।७।१८) इत्यादिना इटप्रतिषेधः स्यात्। एतदेव श्लोकेनाहवेटामित्यादि। ते इति। तव सिद्धान्तवादिन इत्यर्थः। चकारोऽवधारणे नैवेत्यर्थः। ननु वचनबलादेव इति कृते लोपो भविष्यति, अन्यथा "कारितस्यानामिड्विकरणे" (३।६।४४) इत्यनेनैव सिद्धत्वात्। तदयुक्तम्, तेन हि लोपोक्ताविडागम एव नित्यगे - तु लोप इति। सति अनामिविकरणे इति प्रतिषेधात्। ततो यथा कार्रायतंबादी नित्यत्वादिः पूर्वं स्यात् - बारित इत्यादावपीति। कथम्
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy