________________
७०
कातन्त्रव्याकरणम्
८९०. य्वोर्व्यञ्जनेऽये [४।१।३५] [सूत्रार्थ
कृत्संज्ञक यकारवर्जित व्यञ्जनादि प्रत्यय के परे रहते धातुगत यकार-वकार का लोप होता है ।।८९०।
[दु० वृ०]
यकारवकारयोः कृति व्यञ्जने परे यकारवर्जिते लोपो भवति । 'नयी' (१।४११) - नूतः, नूतवान् । दिदिवान् , सिषिवान् । व्यञ्जन इति किम् ? क्ष्मायिता, देविता । अय इति किम् ? प्रन्य्य, प्रदीव्य । कथं कण्डू:, लोलू: ? वर्णाश्रयेऽपि प्रत्ययलोपलक्षणं क्वचित् । लब्धा, लब्धुम् इति ओष्ठ्योऽयं बकारः ॥८९०।
[दु० टी०]
वोः । दिदिवान् , सिषिवान् । भाषायामपि क्वन्सुः । परस्त्वाह-छान्दसोऽयं लोप इति । कण्डूयञ् धात्वन्तरमेव । लोलूयः, चेक्रीयितान्त: । अस्य च लोपे कृते स्वरादेशस्य स्थानिवद्भावो नास्ति । लुगविधित्वानित्यत्वात् क्विबादीनां लोपे सति 'न वर्णाश्रये प्रत्ययलोपलक्षणम्' (व्या०परि० पा० ९६) इति प्रत्ययलोपलक्षणं नास्ति, व्यञ्जनं च वर्ण इत्याह - वर्ण इत्यादि । अस्याः परिभाषाया लक्ष्यानुरोधादनित्यत्वाभ्युपगम इत्यर्थः ।।८९०।
[वि० प०]
य्वोः । कथमिति । कण्डूयञ् धात्वन्तरम् , 'लोलूयः' इति चेक्रीयितान्तात् क्विप्। अस्य च लोपे स्वरादेशस्य स्थानिवद्भावो नास्ति । लुगविधौ "न पदान्त०" (का० परि० १०) इत्यादिना स्थानिवद्भावप्रतिषेधात् । ननु तथापि नित्यत्वात् क्विपो लोपे व्यञ्जनस्याभावात् कथं यकारलोप:? न चेह प्रत्ययलोपलक्षणमुपपद्यते। व्यञ्जने हि वर्णलोपोऽयमिति 'न वर्णाश्रये प्रत्ययलोपलक्षणम्' (व्या० परि० पा० ९६) इति प्रतिषेधाद् इत्याह - वर्णेत्यादि। क्वचिदिति। लक्ष्यानुरोधादस्या: परिभाषाया अनित्यत्वमति भावः। ओष्ठ्योऽयं बकार इति सूत्रे दन्त्योष्ठ्यो निर्दिष्ट इति भावः।।८९०।
[क० च.]
वोः । कथमित्यादि । ननु अन्तरङ्गत्वात् प्रागेव लोपो भविष्यति, नैवम् । अन्तरङ्गेण लोपो न बाध्यते इति "विरामव्यञ्जनादिषु' (२।३।४४) इत्यत्र विरामग्रहणेन ज्ञापितमिति कश्चित् । तदसत् । विरामग्रहणस्य फलं तत्रैव दर्शितम्। वस्तुतस्तु अन्तरङ्गत्वाद् यलोपो भवतु तथापि क्विपो लोपे निमित्ताभावानिवर्तते। पुनः प्रत्ययलोपलक्षणप्राप्तिपक्षो वृत्तौ वर्णित इति पञ्जिकायामपि । लब्धेति भकारस्थाने जातो बकारः स्थानिवदोष्ठ्य इत्यर्थः ।।८९०।