________________
६८
· कातन्त्रव्याकरणम्
८८९. वेर्लोपोऽपृक्तस्य [४ !१।३४]
[ सूत्रार्थ ]
कृत्सञ्ज्ञक तथा अपृक्तसंज्ञक 'वि' (व्) का लोप होता है ।८८९ । [दु० वृ० ]
घृतं
वेः कृत्संज्ञकस्यापृक्तस्य वर्णान्तरेणासंयुक्तस्य लोपो भवति । क्विप् स्पृशतीति घृतस्पृक् । विण् - अर्धभाक् । विच्- कीलालपाः । कृत इति किम् ? उपेयिवांसमाचष्टे उपेयिवयतीति क्विप् - उपेयिव् उपेयिवौ । अपृक्तस्येति किम् ? क्विबादीनां विशेषकराननुबन्धानुत्सृज्य इकारोपलक्षितस्य वमात्रस्य लोपार्थम् । तेनेह न स्यात् – जागृविः । “कृगृजागृभ्यः क्विः” ॥८८९ ।
[दु० टी० ]
वेः । ‘पृची सम्पर्के' (२।५३) । पृच्यते स्मेति पृक्तः । क्विबादीनां यथानुवर्तते तथा लिङ्गसञ्ज्ञायामुक्तमेव । अथवा यद्यपि अन्वयव्यतिरेकाभ्यां प्रत्ययार्थो विधीयते, तौ तु क्विबादीनां न सम्भवतो रूपस्यादृष्टत्वात्, तथापि प्रत्ययत्वप्रत्यभिज्ञानादर्थवत्ता। शास्त्रव्यवहाराद्धि प्रकृतिप्रत्ययादिकल्पना तदर्थव्यवहारादेव विकल्पयिष्यत इति । अन्येषां प्रत्ययानां कर्तृवाच्य इति दर्शनात् क्विबादीनामेव कर्तृवाचित्वम् ||८८९|
,
[वि० प० ]
11
वेः । कृत्संज्ञकस्येत्यत्र प्रकरणमाश्रयणीयमित्यर्थः । घृतस्पृगिति । "स्पृशोऽनुदके" (४।३।७०) इति क्विप् । कृत इत्यादि । उपपूर्व इण्, क्वन्सु, द्विर्वचनम् । "अर्तीण्घसैक ० (४।६।७६) इत्यादिना इट्, "दीर्घ इणः " ( ३।३।१७) इत्यादिनाऽभ्यासे दीर्घः । “इणश्च” (३।४।५९) इति यत्वम् । धात्वर्थे इनि कृते "इनि लिङ्गस्या ० ' (३।२।१२) इत्यादिनाऽन्त्यस्वरादिलोपः इति । " ते धातवः " ( ३।२।१६) इति धातुत्वमिति प्रत्युदाह्रियते ॥ ८८९ |
"
[क० च० ]
वेः । वेरिति इकार उच्चारणार्थः, वकारमात्रस्य लोपः । अथ कथमिति चेत्, वेरेव लोपः कथन्न स्यात्, तदा 'जागृविः' इत्यत्रापि लोपः स्यात् । नैवम्, अपृक्तग्रहणबलाद् अयं च वकारोऽपृक्तो न भवति, इकारेण सस्वरत्वात् । अथ विशब्द एवान्यवर्णेन संपृक्तोऽवगम्यते, तदसम्भवादनुचितमिदम् । अतः “कृगृजागृभ्यः क्विः” इत्यनेन विहितस्य वेरिकारस्तदुपलक्षणं न भविष्यति, क्विबादीनामेव भविष्यतीत्यर्थे किं प्रमाणम् ? सत्यम् । “अशन्तृव्योः” (४।१।८) इति निर्देशात् । तथापि यदि वेरिकारोऽप्यनुबन्धः स्यात् तदा यथा शन्तृङः शकारानुबन्ध: पठ्यते, तथा वेरपि पठ्यतामिति । तस्माद् उकारपाठाद् इकारपाठाद् वा नायमनुबन्धः क्विबादीनान्तु कारणाभावात् तदर्थमेव इंकारकरणम् । अथ क्विबादीनां वकार एव क्रियताम्, तथा इदं वचनं च ? सत्यम् । वकारकरणं 'कण्डूः,