________________
६७
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः विवक्ष्यते, तदैव भवतु, तेन न योग्यतायाम् । अन्यथा यदि सामान्येन भविष्यति तदा निरर्थकमेव तदर्थग्रहणम् । धातोः स्वत एव विनिमये वर्तमानत्वाद् व्यवच्छेद्याभावादिति पञ्जिका । अथ किमर्थमिदमुक्तम् , तदर्थग्रहणाभावेऽपि कथन्न स्यात् । तस्मादेतद् - व्यावत्त्यर्थमेव तदर्थग्रहणमिति । नैवमत्र पक्षे तदर्थग्रहणस्थितावपि सामान्येन कर्मणि भावे च भविष्यति । अन्यथा यदि कर्मण्येव तदा 'क्रीञः कर्मणि' इति कुर्यात् , किं व्यापकवचनेन? तस्माद् भावस्यापि प्रत्ययार्थत्वात् तत्रापि स्यात् ।।
अथ तथापि तदर्थग्रहणस्य व्यावृत्तिरस्ति, फलोपधायककर्मादायैव स्यादिति । अन्यथा 'क्रेयं मे धान्यम्' इत्यत्रापि योग्यतायां कथन स्यात् ? सत्यम् , इदानीं तदर्थग्रहणाभावे गौणमुख्यन्यायोऽत्र शरणम् । विनिमयो हि फलोपधायकत्वे मुख्यत्वेन सम्भवति । योग्यतायां तु गौणत्वेनेति हृदयम् । कर्मणीति । ननु कथमिदं निश्चितम् , भावेऽपि कथन स्यात् ? सत्यम् । तदर्थग्रहणोपरि अयमपि भारो देय इति हेमः । तच्छब्देनेति । स क्रय्योऽर्थो यस्य स चासावर्थश्चेति पक्षद्वय इति शेषः । अथ कर्मधारयपक्षे तदर्थस्य व्यावृत्तिर्नास्तीति कथमुक्तं पञ्जिकायां भावेऽसम्भवात् । अन्यथा भावेऽपि कथन्न स्यादित्याह - यदि चेति । तदर्थ इति भावार्थेऽभिधेय एव वर्तमानेऽपि य: प्रत्ययः कर्मण्येव स्वरवद् भवति, इष्टत्वादित्यर्थः ।।८८८।
[समीक्षा]
'क्रय्यो गौः, क्रय्य: कम्बलः, क्रय्या गौः' इत्यादि शब्दरूपों के सिद्ध्यर्थ अपेक्षित अयादेश का विधान दोनों ही व्याकरणों में किया गया है । पाणिनि का निपातन से अयादेशविधायक सूत्र है - "क्रय्यस्तदर्थे' (अ० ६।१८२) । तदनुसार पाणिनीय व्याकरण में साक्षात् अयादेश का विधान करके तथा कातन्त्र में मकारादि प्रत्यय का स्वरवद्भाव करके आवश्यकता की पूर्ति की गई है । अत: प्राय: उभयत्र समानता है ।
[विशेष वचन] १. क्रय्या गौः। कश्चित् क्रेष्यतीति कृत्वा हट्टेऽवतारिता गौरित्यर्थः (दु० वृ०)। २. क्रेयं मे धान्यम् । क्रेतव्यं ग्रहीतव्यं स्वीकर्तव्यम् (दु० टी०) ।
३. विनिमयो हि फलोपधायकत्वे मुख्यत्वेन सम्भवति, योग्यतायां तु गौणत्वेनेति हृदयम् (क० च०)।
[रूपसिद्धि
१. क्रय्या गौः । क्री + य + आ + सि । 'डु क्रीञ् द्रव्यविनिमये' (८।१) धातु से द्रव्यविनिमय अर्थ की विवक्षा में "स्वराद् यः' (४।२।१०) सूत्र द्वारा 'य' प्रत्यय, धातुघटित ईकार को गुण, प्रकृत सूत्र से स्वरवद्भाव, एकार को अयादेश, स्त्रीलिङ्ग में 'आ' प्रत्यय, समानदीर्घ तथा विभक्तिकार्य ।।८८८।