________________
६६
कातन्त्रव्याकरणम्
धान्यमप्रसारितत्वाद् हट्टे, ततः किं स्वीकरिष्यति किं क्रेतव्यमित्यर्थः । अन्ये पुनराहुःक्रीणातिरयमनुपसर्गपूर्व: शुद्धश्च तस्यार्थ इति क्रय्या गौः, विक्रेया इत्यर्थः । क्रेयं मे धान्यं नास्ति विक्रेयं तद् यद् विक्रीयते इत्यर्थः । अपरे पुनराहुः - क्रीजस्तदर्थे इति भावमात्रनिर्देशाद् भावि क्रय्यमिति ।।८८८।
[वि० प०]
क्रीञः । इह कर्मणि यप्रत्ययस्य विधानात् प्रत्ययार्थः कर्मणि विद्यते, प्रकृत्यर्थश्च द्रव्यविनिमय:, क्रीणातेस्तत्र पठितत्वात् । तत्र विशिष्टो हि प्रत्यया शब्देनोच्यते । यदाह - 'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः' (का० वृ० १।२।५६) इति। यदि च प्रधानत्वात् तच्छब्देन प्रत्ययार्थों निर्दिश्यते, तदायमर्थो भविष्यति - स क्रेयोऽर्थो यस्य यस्य शब्दस्य स तदर्थः शब्दः, तस्मिन्नभिधेये कृद् यः स्वरवद् भवति। अयं तु न युज्यते पक्षः, न हि क्रय्यार्थशब्देऽभिधेये यप्रत्ययस्य विधिरस्तीति कर्मणि तस्य विधानात्। न च तदन्तात् क्रय्यशब्दात् क्रय्यार्थस्य प्रतीतिरस्ति, शब्दस्य शब्दान्तरार्थानुपपत्तेः। अथ स चासावर्थश्चेति तदर्थ इति कर्मधारयः? एवमपि तदर्थग्रहणमनर्थकं स्यात्, व्यवच्छेद्याभावात्। अवश्यमेव हि क्रीणातेरुत्पन्नो यप्रत्ययस्तस्मिन्नर्थे कर्मणि वर्तते तत्र तस्य विधानात्। तर्हि प्रकृत्यर्थः कथ्यताम्? यदाह यासिकाः - तस्मै इदं तदर्थम्, तस्मै विनिमयाय यदुपन्यस्तं द्रव्यं तत् तदर्थम्। तस्मिन् कर्मणि वर्तमाने य: कृद् य: स्वरवद् भवति? सत्यम् , अयमपि गरीयान् पक्ष इति। तच्छब्दस्य पूर्ववस्तुपरामर्शित्वात् प्रकृतिमेव वक्तुमर्हतीति। अत: षष्ठीसमासोऽयमित्याह - तस्येति। तस्य क्रीओऽर्थो द्रव्यविनिमयः परिवतों व्यतिहार: क्रय इत्यर्थान्तरम्। एतदुक्तं भवति - क्रियाविशिष्टेऽर्थे कर्मणि वर्तमान: कृद् य: स्वरवद् भवति। क्रेयं मे धान्यमिति। मम धान्यं क्रेतव्यं गृहीतव्यम् = स्वीकर्तव्यम् । नास्ति क्रय्यमिति न तदस्ति क्रय्यम्। यत् क्रयार्थमुपन्यस्तं धान्यम् अप्रसारितत्वाद् हट्टे। ततः किं क्रीयते इत्यर्थः।।८८८।
[क० च०]
क्रीज: । तच्छब्देनात्र किमुच्यते प्रकृत्यर्थ: प्रत्ययार्थो वा ? तत्र न तावत् प्रत्ययोऽसम्भवात्। प्रत्ययार्थ: पञ्जीकृतैव विचार्यते, तथा प्रकृतिः प्रत्ययश्च वृत्ताविष्ट इति पदं विनिमयस्थानोपलक्षणार्थम्, तदर्थ इति । क्रेयं क्रेतव्यमित्यर्थः क्रय्यं नास्ति कुत इति हेतुगर्भविशेषणमाह - न प्रसारितमिति। अतः क्रय्यं नास्तीत्यर्थ: । तथा च अमरेण सहैकवाक्यता अस्य - 'क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके' इत्यमरः।
ननु ईदृशो विशेषः कथं लभ्यते - क्रेयं मे धान्यमित्यत्रापि योग्यतामादाय विनिमयो धात्वर्थोऽस्त्येव । ततश्च प्रसारितमप्रसारितमिति कुतोऽयं विशेषग्रहः ? सत्यम् । तदर्थग्रहणादेव विशेषोऽवगम्यते । तेनायमर्थः- तदर्थग्रहणादेव यदा फलोपधायकविनिमयार्थो विशेषो