________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः अयादेश का विधान है, जबकि कातन्त्रव्याकरण में स्वरवद्भाव करके इस अपेक्षा की पूर्ति की गई है । अत: प्राय: उभयत्र समानता ही है । पाणिनि का सूत्र है - "क्षय्यजय्यौ शक्यार्थे' (अ०६।१।८१) ।
[रूपसिद्धि]
१. जय्यम् । जि + य + सि । जेतुं शक्यम् । 'जि जये' (१।१९१) धातु से शक्यार्थविवक्षा में “शकि च कृत्याः ' (४।५।१०९) से 'य' प्रत्यय, गुण, स्वरवद्भाव, प्रकृत सूत्र से एकार को अयादेश तथा विभक्तिकार्य ।
२. क्षय्यम् । क्षि + य + सि । क्षेतुं शक्यम् । 'क्षिष् हिंसायाम्' (८।३०) धातु से 'य' 'प्रत्यय, गुण, स्वरवद्भाव, अयादेश, लिङ्गसंज्ञा, सि-प्रत्यय तथा विभक्तिकार्य ।।८८७।
८८८. क्रीजस्तदर्थे [४।१।३३] [सूत्रार्थ
'क्रीज्' धातु से परवर्ती द्रव्यविनिमय अर्थ में वर्तमान कृत्सञ्ज्ञक यकारादि प्रत्यय को स्वरवद्भाव होता है ।।८८८।
[दु० वृ०]
तस्यार्थो द्रव्यविनिमयः, क्रीञः परस्तदर्थे वर्तमान: कृद् यः स्वरवद् भवति । क्रय्या गौः । कश्चित् क्रेष्यतीति कृत्वा हट्टेऽवतारिता गौरित्यर्थः । तदर्थ इति किम् ? क्रेयं मे धान्यम् । नास्ति क्रय्यम् , न प्रसारितमित्यर्थः ॥८८८।
[दु० टी०]
क्रीज: । क्रय्या इत्यत्र प्रत्ययार्थः प्रधानं प्रकृत्यर्थोऽपि विशेषणम् , तदित्यनेन कस्य निर्देशो न्याय्य: ? प्रधानस्य चेत् , प्रत्ययार्थस्य प्रकृत्यर्थविशिष्टस्य यदि प्रधानत्वं निर्दिश्यते, न किञ्चिदुक्तं भवतीति । क्रय्योऽर्थो यस्य शब्दस्य स तदर्थः शब्दस्तस्मिस्तदर्थे, न च क्रय्यानुवृत्तौ शब्दे क्रय्यशब्दस्य वृत्तिः सम्भवति, न हि शब्दे शब्दो वर्तते । न च स एवार्थस्तदर्थ इति तदर्थग्रहणमनर्थकमवश्यमेव हि क्रय्यशब्दः स्वस्मिन्नर्थे वर्तते, तस्मात् प्रधानार्थनिर्देशे तच्छब्दस्यानर्थक्याद् गुणभूतस्य प्रकृत्यर्थस्य सम्बन्धोऽर्थादिति मत्वा चतुर्थीमाहुरन्ये । तस्मै इदं तदर्थं तस्मै क्रयाय यदुपन्यस्तं द्रव्यं तत् तदर्थं तस्मिन् वर्तमान: कृद् यः स्वरवदिति च गरीयः । प्रकृतिप्रत्यययो
क्यभेदनिर्देशात् तच्छब्दः पूर्ववस्तुपरामर्शीति प्रकृतिमाह, तस्य क्रीओऽर्थो द्रव्यविनिमयः, तदर्थे वर्तमान: क्रयविशिष्टे कर्मणि वर्तमान: कृद् य इत्यर्थः ।
क्रयायोपन्यस्तो विनिमयार्थं विक्रीयते य: स क्रय्यः । तदर्थ इत्यादि । क्रेयं मे धान्यं क्रेतव्यं ग्रहीतव्यम् = स्वीकर्तव्यम् । नास्तीत्क्षदि। न च तदस्ति यत् तत् क्रयार्थमुपन्यस्तं