________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
४. इत्वरः। इण् + तकारागम + क्वरप् + सि । 'इण गतौ' (२।१३) धातु से "सृजीणनशां क्वरप्' (४।४।४८) सूत्र द्वारा 'क्वरप्' प्रत्यय, ‘क्-प्' अनुबन्धों का प्रयोगाभाव, प्रकृत सूत्र से तकारागम तथा विभक्तिकार्य ।।८८५।
८८६. ओदौद्भ्यां कृद् यः स्वरवत् [४।१।३१] [सूत्रार्थ] 'ओ-औ' से परवर्ती यकारादि कृत् प्रत्यय को स्वरवद्भाव होता है ।।८८६। [दु० वृ०]
ओदौद्भ्यां पर: कृद् यः स्वरवद् भवति । लव्यम् , अवश्यलाव्यम् । ओदौद्भ्यामिति किम् ? चेयम् । कृद् य इति किम् ? उपोयते, प्रौयत । इह कृद्ग्रहणादन्यत्र सामान्यमवगम्यते ।।८८६।।
[दु० टी०]
ओदौ० । अवादेशार्थमिदं वचनमिति । लव्यमिति । "स्वराद् यः" (४।२।१०)। अवश्यलाव्यम् इति। "उवर्णादावश्यके" (४।२।३७) इति घ्यण् । कृद्ग्रहणं किमर्थमित्याहउपोयते, प्रौयत इति । यजादित्वाद् वेबः सम्प्रसारणे उवणे ओत्वे सत्यपि धात्वधिकारे 'परनिमित्तादेशः पूर्वस्मिन् स एव' (का० परि० ४४) इति धातोरोकारो भवति व्यपदेशिद्भावात्। तथा "स्वरादीनां वृद्धिरादेः" (३।८।१७) इति "ओकारे औ औकारे च" (१।२।७) इति कृते। इहेत्यादि। न प्रकरणं गम्यते इत्यर्थः।।८८६।
[वि० प०]
ओदौ० । लव्यमिति । "स्वराद् यः" (४।२।१०) । अवश्यलाव्यमिति। "उवर्णादावश्यके" (४।२।३७) इति घ्यण् । समासेऽवश्यम: कृत्ये लुग् इति अवश्यमो मलोपः । इह स्वरवद्भावाद् "ओ अव् , औ आव्' (१।२।१४, १५) भवति । उपोयते, प्रौयत इति । यजादित्वाद् यणि वेञः सम्प्रसारणे एकत्र "उवणे ओ" (१।२।३) । अन्यत्र ह्यस्तनीविभक्तौ "स्वरादीनां वृद्धिरादेः" (३।८।१७) इति कृते "ओकारे औ औकारे च" (१।२७) इति प्रवर्तते । न चात्र वक्तव्यम्धात्वधिकारः प्रवर्तते, परलोपे चेह धातोविलुप्तत्वात् कथं प्राप्तिरिति । यस्मात् 'परनिमित्तादेशः पूर्वस्मिन् स एव' (का० परि० ४४) इति धातुरेव । ननु तथापि प्रकरणादेव कृद् यकारो लभ्यते, किं कृद्ग्रहणेनेत्याह - इहेत्यादि । तेन ‘दुयूषति' इत्यादौ "च्छ्वोः शूटौ पञ्चमे च" (४।१।५६) इत्यादिवचनेन सामान्येनैव सिद्धमिति भावः ॥८८६।
[समीक्षा]
'लव्यम् , अवश्यलाव्यम्' इत्यादि शब्दरूपों के सिद्धयर्थ 'ओ-औ' को 'अव्आव् ' आदेश आवश्यक होते हैं, जो परवर्ती स्वर वर्ण के विना सम्भव नहीं हैं। पाणिनि