________________
[३]
यितुमुपचक्रमिरे । वेदपरम्परावलम्बीनि महाकाव्यानि स्वमतपोषकैर्महाकाव्यैः, खण्डकाव्यानि खण्डकाव्यैः, कोषग्रन्थान् कोषग्रन्थैः, व्याकरणग्रन्थान् व्याकरणग्रन्थैः, नाट्यकथाचम्वादिरचनास्तद्गुणविशिष्टाभी रचनाभिः, दर्शनसिद्धान्तांश्च स्वदर्शनसिद्धान्तैस्ते यथाशक्ति यथामति सन्तुलितवन्तः । इयं वाङ्मयी प्रतिस्पर्धा परां काष्ठामधिरूढा सन्दृश्यते यदा वयं विष्णुसहस्रनामप्रतिस्पर्धिनीं कृतिं जिनसहस्रनामेति नाम्नीमवलोकयामः ।
भवतु, अनया वाङ्मय्या प्रतिस्पर्धया भगवत्या मल्लिकाक्षवाहिन्या महानुपकारस्सञ्जातः । न केवलं संख्यादृष्ट्या प्रत्युत काव्यसौष्ठव - चिन्तनगाम्भीर्यबुद्धिविलासादिदृष्ट्याऽपि जैनमतकृतयः क्वचिन्महीयन्त एव । विशेषेण, मध्यकालीनो भारतीयेतिहासो यथा सुरक्षितो दृश्यते जैनमतग्रन्थेषु न तथा क्वचिदन्यत्र । चातुर्मास्यपरम्परापरिपालननिरता नित्ययायावरा जैनश्रमणा लोकवृत्तानां प्रत्यक्षद्रष्टार आसन् । ग्रामग्रामटिकाऽरण्यपर्वतकन्दरानदनदीसागरादिपरिज्ञानपि तेषां प्रत्यक्षानुभूतमेवाऽऽसीत् । ततश्चैव जैनागमवाङ्मये समग्रमपि राष्ट्रं प्रतिबिम्बितं परिलक्ष्यते । नरनारीभूतप्रेतपिशाचपशुपक्षिप्रभृतिविविधजीवानां सूक्ष्मातिसूक्ष्माः प्रवृत्तीरपि महातपस्विन एते श्रमणा हस्तामलकवत् सहजमेव विदुः ।
प्रकृतमनुसरामस्तावत् । सैव वाङ्मयी प्रतिस्पर्धी भयोर्धर्मयोर्मध्ये शब्दानुशासनपरम्परामप्यवलम्ब्य प्रवृत्ता दृश्यते । ऐन्द्री व्याकरणपरम्पराऽऽद्यतमा परिलक्ष्यते महाभाष्यप्रामाण्यात् । वस्तुतः शिक्षानिरुक्तव्याकरणाभिधास्त्रयोऽपि वेदाङ्गविषया मिथस्सम्मिश्रिता एव परिलक्ष्यन्ते । व्याकरणं शब्दसाधुत्वं प्रतिपादयति, निरुक्तं तस्यैव शब्दस्य निर्वचनविषयिणीर्विविधाः सम्भावना गवेषयते, शिक्षाप्रतिपादयितृ प्रातिशाख्यञ्चापि विविधवेदशाखाप्रयुक्तशब्दसमवायस्य वैभिन्न्र्यं किञ्च, तेषामुच्चारणादिवैशिष्ट्यं विवृणोति । समेषामेवैषां विचारणा शब्दकेन्द्रितैव दृश्यते । अत्रापि निरुक्तप्रातिशाख्यपरम्परा तु वेदविवेचनमात्रपर्यवसितत्वाद् मध्येमार्गमेव क्वचिन्निरुद्धा; परन्तु शब्दसाधुत्वसिद्धिमात्र केन्द्रितं व्याकरणशास्त्रमुत्तरोत्तरमुपबृंहणपरिष्करणान्यथोपपादनादिप्रक्रियाभिर्विकासमुपगतम् ।
वस्तुत इयमासीन्माहेश्वरी परम्परा शब्दानुशासनस्य । चिरं यावदियं परम्परा महर्षिपाणिन्युपदिष्टामष्टाध्यायीमनुसरन्ती लोके परमां समज्ञां भेजे। महेश्वरडमरुकनिना