________________
[२]
लोकमवतीर्य विविधैराचार्यैः प्रोक्तं सत्सहस्रधारतामुपगतम् । यद्यपि वाङ्मयालोके महामुनेः पाणिनेरेव महती प्रतिष्ठा संल्लक्ष्यते, त्रिमुनिव्याकरणमिति विद्वज्जनमान्यतायां शिरोरत्नभूतत्वात् । तथापि नैतदविदितं विदुषां यत् प्रागपि पाणिनेरनेके यशस्विनश्शाब्दिका: सञ्जाताः । तद्यथा -
ऐन्द्रश्चान्द्रः काशकृत्स्नापिशली शाकटायनः ।
पाणिन्यमरजैनेन्द्रा जयन्त्यष्टौ च शाब्दिकाः ।। किञ्च, महामुनिः पाणिनिः स्वयमपि पदे पदेऽष्टाध्याय्यां स्वपूर्वसूरीन् वैय्याकरणान् सबहुमानं स्मरति । तत्र प्रथन्ते भागुरि-शाकल्य-स्फोटायनप्रभृतयः । वस्तुतो लोकम्भरीयेयं पाटी शब्दविद्योपासकानां माहेश्वरपरम्परेत्युच्यते । अस्यां परम्परायामेव त्रिमुनेरनन्तरं वामनजयादित्य-हरदत्त-कौण्डभट्ट-भट्टोजिदीक्षितनागेशभट्टादयष्टीकाकारा: प्रक्रियाग्रन्थकाराश्च समवतीर्णा: । तैः पल्लवितं गगनाभोगविस्तृतं विपुलवाङ्मयं शब्दानुशासनस्येदानीमपि राष्ट्रेऽस्मिन् सुरक्षितं तिष्ठति ।
परन्तु समुज्जृम्भमाणे सति वैदिकधर्मविसंवादिनि सौगते हुने च सम्प्रदाये भारतराष्ट्रस्य परिस्थितिरेव विपरिवर्तिता । ईश्वरास्तित्वप्रत्याख्यानपरयोरनयोः सम्प्रदाययोर्यथा यथा कालक्रमापेक्षो विकासस्सञ्जातस्तथा तथैव वैदिकधर्मसंस्कृतिवाङ्मयपाराङ्मुख्यमप्येतयोः स्फारतामुपगतम् । विकासस्यान्तिमावस्थायान्तु विसंवादोऽयमुभयोः प्रतिपदं प्रतिसन्दर्भं प्रतिप्रकरणञ्च समवलोक्यते ।
दार्शनिकं चिन्तनं बौद्धजैनमतयोरपि सन्दृश्यते; परन्तु तत्र वैदिकदर्शनानां सांख्ययोगन्यायवैशेषिकमीमांसावेदान्तादीनां प्रायेण सर्वेऽपि सिद्धान्ताः खण्डिता न्यक्कृता अन्यथाव्याख्याता वा। एवंकरणे तु क्वचिद्युक्तियुक्तत्वमपि परिदृश्यते । प्रायेण किन्तु महीयते पूर्वाग्रहग्रस्ततैव ।
___ वैदिकी पुराणपरिपाटी प्रतिस्पर्ध्य जैनविपश्चिद्भिरपि प्रणीतानि पुराणानि; परन्तु तेषु पुराणेषु वर्णितास्तावन्त एव शलाकापुरुषा इतिहाससम्मता संल्लक्ष्यन्ते यावन्तो वैदिकपरम्परात: प्रसह्य आत्मसात्कृताः । ये पुनर्नलरामवसुदेवकृष्णादीतरा: स्वोपज्ञशलाकापुरुषास्ते केवलं काल्पनिका कथानायका एव । न तेषां दृश्यते कोऽपि यथार्थेतिहासः । एतदुक्तं भवति यद् वेदमात्रं विहाय जैनमतावलम्बिन: प्रतिस्पर्धामनस्कतया सर्वमपि वैदिकं वाङ्मयं तुल्यगुणविशिष्टैः स्वोपज्ञग्रन्थैस्तुल