________________
नान्दीवाक् कोविदं शर्ववर्माणं नौमि कातन्त्रमार्मिकम् । दर्शितश्शब्दविद्याया येन मार्गो विलक्षणः।। ताथागतो भवेदाहोस्विदसौ स्याज्जिनानुगः ।।
शब्दानुशासनस्थेम्ना शर्ववर्मा महीयते ।। प्रथमवेदाङ्गत्वेन सुप्रतिष्ठितं व्याकरणशास्त्रं प्रत्नकालादिदानी यावत्पाण्डित्यपर्यायभूतमङ्गीक्रियते विद्वत्समवाय इत्यत्र न कोऽपि संशीतिलेश: । व्याकरणं वेदस्याङ्गमितिमात्रं विदन्ति प्रायेण सर्वे । तत्र न किमप्यनौचित्यम् । अङ्गं तु वर्तत एव व्याकरणं वेदस्य । परन्तु नैतावदेव । अङ्गशब्दस्य सार्थकता क्वचिदन्यस्मिन्नप्यर्थे सन्दृब्धा दृश्यते । अङ्ग्यन्ते प्रकाश्यन्ते विशदीक्रियन्ते वा वेदार्था अनेनेत्यङ्गमितीयं व्याख्यैव वेदाङ्गशब्दं सार्थकं साधयति । व्याकरणमपि वेदार्थप्रकाशनक्षमतयैव तदङ्गमुच्यत इति ममाभिप्रायः ।
ब्राह्मणेन निष्कारणं षडङ्गो वेदोऽध्येयो ज्ञेयश्चेत्युपदिशन् महाभाष्यकारोऽपि वेदषडङ्गजातं माहात्म्यदृशा विशिनष्टि । प्रथमे हि विद्वांसो वैय्याकरणा इति प्रतिपादयताऽधिध्वन्यालोकमाचार्यानन्दवर्धनेनापि व्याकरणशास्त्राधमर्णत्वमेवाऽऽलङ्कारिकाणां सश्रद्धं प्रकटितम् । किञ्च, लोकपरम्परायामपि सुभाषितमुखेन व्याकरणज्ञानस्यापरिहार्यत्वं प्रचलितमेव । तद्यथा
यद्यपि बहु नाधीषे पठ पुत्र तथापि व्याकरणम् ।
स्वजनः श्वजनो मा भूत्सकलः शकलः सकृच्छकृत् ।। एवंगुणविशिष्टमिदं विलक्षणशास्त्रमतिचिरत्नमित्यप्यवधेयम् । महाभाष्यकार: पतञ्जलिरेवात्र प्रमाणं यः खलु व्याकरणाध्ययनपरम्परां पौराणीं तदनन्तताश्च साधु प्रतिपादयति । देवगुरुबृहस्पतिर्वक्ता, साक्षाद्देवराज इन्द्र एवाऽध्येता, दिव्यञ्च वर्षसहस्रं प्रवचनावधि:। हन्त, तथापि शब्दविद्याया: पारं न जगाम । एवं स्फारीकुर्वाणो भाष्यकार: शब्दानुशासनाध्ययनपरम्पराया दैवं स्वरूपं प्रतिपादयति । तदेव व्याकरणशास्त्रं