________________
दोद्गतचतुर्दशसूत्राणि व्याचक्षाणो दाक्षीसूनुश्शालातुरीयः पाणिनिः पूर्वसूरिमतानि सगृह्य स्वाभिमतं निर्दुष्टं शब्दानुशासनं कृतवान् । तस्यैव नैयून्यं मनसि निधाय कात्यायन: कालान्तरे वार्तिकजातं प्रणिनाय । वार्त्तिकाणाञ्चापि साधुत्वमसाधुत्वं विचारयन् महाभाष्यकार: पतञ्जलिरष्टाध्याय्याः साङ्गोपाङ्गसमीक्षां कृतवान् । परिष्कारपरिबृंहणादिपरम्परेयं नागेशभट्ट यावद् (अष्टादशतमख्रिस्ताब्दं यावत् ) निर्विघ्नं प्रवर्तमाना सन्दृश्यते ।
माहेश्वरीपरम्पराप्रतियोगिन्येवासीन्माहेन्द्री परम्परा शब्दानुशासनस्य या खलु जैनमतानुयायिभिः किञ्च सौगतैश्चापि स्वीकृता पोषिता चाऽभूत् । शर्ववर्मप्रणीतं कातन्त्रव्याकरणं जैनपरम्पराभिमतमासीदिति प्रायोवादस्सम्प्रति प्रचलति जैनविद्वत्समवाये। व्याकरणस्यास्य रचनाविषये यो वृत्तान्त: प्रचलितस्तेनास्य रचनाकालोऽपि स्पष्टतामुपयाति। राज्ञः सातवाहनस्य शब्दविद्यामर्मज्ञा विदुषी राज्ञी, सरोवरजलैरसकृत् प्रहरन्तं पतिं निवारयन्ती प्राह-मोदकं देहीति । मा उदकं देहि, उदकप्रहारैर्मा पीडयेत्यासीदभिप्रायो राज्याः; परन्तु शब्दविद्याज्ञानविरहितो नरपतिर्मोदकपदगतं सन्धिरहस्यमविजानन् प्रियां सलिलक्रीडारतां प्रसादयितुं मोदकपिटकमेव प्रस्तुतवान् येन तन्मौढ्यसन्तप्ता राज्ञी स्फुटितहृदया जाता ।
तवृत्तं विज्ञायैव नरपतिं सुष्ठुरीत्या शब्दानुशासनपारङ्गतं विधातुं महावैय्याकरणः शर्ववर्मा मा उदकं देहीति राज्युक्तं पदत्रयमवलम्ब्य अध्यायत्रयपरिमितं कातन्त्रव्याकरणं प्रणीतवान् । माहेन्द्री परम्परां पुष्णातीदं व्याकरणमिति कोविदाः । किं वैशिष्ट्यमस्याः परम्परायाः । तदुच्यते- माहेश्वरीपरम्परा प्रत्याहारजटिला लोकाप्रयुक्तकृत्रिमशब्दसिद्धिपरा शब्दलाघवैकलक्ष्या चाभिमन्यते । माहेन्द्रीपरम्परा पुनः अर्थलाघवैकलक्ष्या लोकव्यवहतशब्दसिद्धिपरा सुखाधिरोहा सङ्क्षिप्ता चेति । नामकरणरहस्यमपि विशदीक्रियते विपश्चिद्भिर्विचित्रयैव युक्त्या । काऽसौ ? काशकृत्स्नतन्त्रापेक्षया सङ्क्षिप्तत्वादेव व्याकरणमिदं कातन्त्रमित्युच्यते । व्याख्याविषयेऽस्मिन् विपश्चिदपश्चिमा एव प्रमाणम् । अन्यथा कुत्सितं तन्त्रं कातन्त्रमिति व्याख्याते सति काऽप्यन्यैव विचिकित्सा समुत्तिष्ठेत् ।
भवतु । कातन्त्रव्याकरणस्य सर्वजनोपयोगित्वमद्यापि रहस्यगर्भमेव तिष्ठति। एतदपि समुत्प्रेक्ष्यते यत्स्वगुणवत्तयैव व्याकरणमिदं वङ्गोत्कलशारदाभोटदेव