________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
[दु० वृ०]
दीडोऽन्तो यकारो भवति स्वरादावगुणे प्रत्यये परे। उपदिदीये, उपदिदीयाते, उपदिदीयिरे। दीङोऽवयवत्वेन द्विवचनं स्याद् आत्त्वं च न स्यात्।। ५६५।
[दु० टी०]
दीडो० । स्वरादिरगुण: परोक्षाप्रत्यये एव सम्भवतीत्याह-उपदिदीये इत्यादि। 'दीङ् क्षये' (३।८३)। अन्तग्रहणं किमर्थम् प्रत्ययविधावकरणात् प्रत्ययो न भविष्यति। न चादेशोऽत्र कृते द्विवचने “य इवर्णस्य" (३।४।५८) इत्यादिना यत्त्वेन सिद्धत्वात् तस्माद् ‘दीङः' इत्यवयवलक्षणैव षष्ठी भविष्यति। प्रत्ययस्य धात्प्रत्ययौपश्लेषिकाधिकरणत्वादनियत एव यकार: स्याच्चेत्तथापि "सृजिदृशोरागमः” (३।४।२५) इत्यतः स्वरात् परम् आगमग्रहणं सुखार्थमनुवर्तिष्यते, तर्हि मन्दधियामागमाधिकारे बुद्धिमकुर्वतां स्पष्टार्थम्। किञ्च स्वरादावित्युत्तरार्थ लाघवाय प्रत्ययोऽप्यत्र संभाव्यते इत्याह - दीडोऽवयवत्वेनेत्यादि। अन्यथानित्यत्वात् प्रत्यये सति व्यवधानात् कथं द्विर्वचनं “मीनातिमिनोतिदीडां गुणवृद्धिस्थाने" (३।४।२२) इत्यात्त्वं स्यादिति, तर्हि कथं 'दिदीयिदवम्' इति ढत्वं स्याद् अनाम्यन्तत्वात् ? सत्यम्, तत्रैव वर्णयिष्यामः। वर्णात् कारशब्दोऽयमकार उच्चारणार्थ एव। “अस्य च लोपः” (३।६।४९) इत्यपि प्रक्रियागौरवम्। स्वरादाविति किमर्थम् ? उपदीयते। अगुण इति किम् ? उपादानम्, भावे युट्।। ५६५ ।
[वि० प०]
दीडो०। पारिशेष्यादिह स्वरादिरगुणः परोक्षाप्रत्यय एव निमित्तं संभवतीति। तत्रैवोदाहरणमाह - उपदिदीये इत्यादि। अथान्तग्रहणं किमर्थम् ? आगमार्थं ततः किम् 'आगमा यद्गुणीभूतास्ते तद्ग्रहणेन गृह्यन्ते' (का० परि० १४) इत्येतदर्थम्, इतोऽपि किं सिद्धमित्याह – दीङ इत्यादि। अन्यथा नित्यत्वान्मध्ये स्वतन्त्रप्रत्यय एव स्यात्। अतस्तेन व्यवहितायां परोक्षायां द्विर्वचनं न स्याद् अगुणविधानाभावाद् गुणी चायमिति गुणस्थानित्वाद् “मीनातिमिनोतिदीडां गुणवृद्धिस्थाने" (का० परि० १४) इत्यात्त्वं स्यादित्यर्थः। यदि पुन: पूर्वसूत्रादागमग्रहणं स्वरात् पर इति चानुवर्तते, तदान्तग्रहणं सुखार्थमेव भवति।। ५६५।
[बि० टी०]
दीङः। परोक्षायामिति सिद्धे स्वरादिग्रहणमुत्तरार्थम् , तेन 'ग्लायते' इत्यत्र न स्यात् ।। ५६५।
[समीक्षा]
'उपदिदीये, उपदिदीयाते, उपदिदीयिरे' इत्यादि शब्दरूपों के सिद्ध्यर्थ 'दीङ् धातु के अन्त में यकार की आवश्यकता होती है। इसकी सिद्धि कातन्त्रकार ने यकारागम तथा पाणिनि ने युडागम से की है। पाणिनि का सूत्र है - "दीडो युडचि