________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
लातेरित्यादि। लियश्चेति 'लीङ् श्लेषणे' (३।८७) इति दैवादिकस्य 'ली श्लेषणे' (८।२६) इति क्रयादिकस्य चेत्यर्थः कथं 'विलास्यते' इति आत्मनेपदम्, लाधातोः परस्मैपदित्वात्? सत्यम्। गुणवृद्धिस्थाने लातेरुभयपदं चेष्यते, यजादेराकृतिगणत्वात् ।
ननु भातिरिनन्तो हेतुभयेऽपि वर्तते इत्यादि यदुक्तं तत् कथम्? यावता धातवो गणे नियतार्था उक्ता इत्याह- अनेकार्थत्वाद् धातूनाम् इति । अनेकार्थत्वं च “मृष: क्षमायाम्" (४।१।१६) इति क्षमाग्रहणेन ज्ञापयिष्यते । तथा चोक्तम् निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ।। इति ।
तेषां निपातादीनामर्थस्य गणे पाठो निदर्शनम् उदाहरणमात्रमित्यर्थः।। ५६३। [बि० टी० ]
स्मिजि०। गुणे कथमोकारवतो द्विर्वचनं गुणस्यापि इनि कृतत्वात्। नैवम्, तदा अवर्णो नास्ति, अवर्णे परे स्थानिवद्भावात् । नापीनि कृतो गुणः सामान्यप्रत्ययाश्रयणात् । परस्य तु गुणबाधको नाकार:, सन्ध्यक्षरकार्यिणः प्रस्तावात् । परस्यौकारस्येति न कथं द्विर्वचनात् परो ह्रस्वस्वरविधि: स्वर इत्यादि वचनं बाधते ह्रस्वस्यापरचिन्तया प्रयोजनाभावात्, तदा स्वरविधिः स्वर इत्यादि वचनं प्रवर्तते यदा पूर्ववद् द्विर्वचनं तदा लिखितम्, न तु ह्रस्वत्वमन्तरङ्गत्वं चिन्त्यते, प्रयोजनाभावात् । अन्नं सैधयतीति मतान्तरेऽपि गमयतीत्यर्थः।। ५६३ |
›
-
४७
[समीक्षा]
'विस्मापयते, जापयति, क्रापयति, अध्यापयति' आदि शब्दरूपों के सिद्ध्यर्थ इन् प्रत्यय (णिच्) परे रहते धातु के अन्त में विद्यमान वर्ण को आकारादेश की आवश्यकता होती है। उस आकारादेश का विधान दोनों ही व्याकरणों मे किया गया है। एतद्विषयक पाणिनि के दो सूत्र हैं- "क्रीङ्जीनां णौ, नित्यं स्मयतेः " (अ० ६ । १। ४८, ५७)। कातन्त्रकार ने 'स्मि' धातु को भी एकत्र कर दिया है, अत: उन्हें एक ही सूत्र बनाना पड़ा है । सूत्रभेद करने के कारण पाणिनीय व्याकरण में गौरव ही कहा जाएगा।
[विशेष वचन ]
१. हेतुकर्तृभये स्मिडोऽभिधानात् कुञ्चिकयैनं विस्माययति । करणाद् भये न स्यात् (दु० वृ०) ।
२. विसंवादाभिभवयोर्लियः कारिते प्रयोगो नास्ति, अनभिधानात् (दु० वृ०)। ३. अनेकार्थत्वाद् धातूनाम् इति (दु० वृ० ) ।
४. अभिधानलक्षणा हि कृत्तद्धितसमासा इति बाहुल्यादुच्यते। अन्येऽप्यभिधानादिति भाव: (दु० टी०) ।
५. भीषिर्हेतुभये स्वभावात् प्रकृत्यन्तरमस्ति । बिभेतेश्च हेतुभये प्रयोगो नाभिधीयते
(दु० टी० ) ।