________________
४६
कातन्त्रव्याकरणम्
इत्यस्त्येव। तथा चिनोतेरपि विकल्पो न वक्तव्यः, रूपद्वयस्य न्यायसिद्धत्वादित्याहचप सान्त्वने इत्यादि। तेन “चिस्फुरोो वा'' इति न वक्तव्यं भवति। चिनोते: स्फुरतेश्च णौ कारिते वा आत्वमित्यर्थः। कथं तर्हि 'पुस्फारयिषति, अपुस्फुरत्' इति इनि कृतस्य स्थानिवद्भावाद् उकारवतो द्विवंचने सत्येतदुपपद्यते, नान्यथा, सत्यम्, इह वर्णविकार: परस्यौकारस्यात्वं द्रष्टव्यम्। पक्षे 'पुस्फोरयिषति, अपुस्फुरत्' इति स्यादेवेति। घअन्तस्य तु 'पिस्फारयिषति, अपस्फारत्' इति भवितव्यमेव। तथा वेतेः प्रजने वेति न वक्तव्यम्। प्रकृत्यन्तरेणैव सिद्धत्वादित्याह- डु वपिरित्यादि। प्रजनं गर्भग्रहणम् 'सिध्यतेरपारलौकिके' इति न वक्तव्यम्। __अस्यार्थ:- “सिधु संराद्धौ' (३।३३) इत्यस्य दैवादिकस्य कारिते आत्वं भवति। परलोके प्रयोजनमस्येति पारलौकिकम्। ततोऽन्यस्मिन्निति। तद् यथा 'अन्नं साधयति, ग्रामं साधयति'। अन्नादिकमिह लोके तृप्त्यादिप्रयोजनत्वाद् इहलौकिकं भवति, न पारलौकिकमिति । अपारलौकिक इति किम्? तपस्तापस: सेधयति। अत्र सिध्यतिर्ज्ञानविशेष वर्तते। तापस: सिध्यति। ज्ञानविशेषमासादयति। तं सिध्यन्तं तपः प्रयुङ्क्ते सेधयति, स च ज्ञानविशेष उत्पन्नः। परलोके जन्मान्तरे फलमभ्युदयलक्षणं प्रयच्छन् परलोकप्रयोजनत्वात् पारलौकिको भवतीति प्रत्युदाह्रियते। अथ अन्नं साधयति, ब्राह्मणेभ्यो दास्यामीति कथमाकारः। स हि विशिष्टेनाभिसम्बन्धिना अन्नं साधयन् जन्मान्तरे फलं प्राप्नोतीति, पारलौकिके सिध्यतीति वर्तते। नैतदेवम्, सिध्यतेस्त्रार्थो निष्पत्तिरिति। न चासो परलोकप्रयोजना। किन्तर्हि अर्थनप्रयोजना अन्ननिष्पत्तिरिति। अन्नस्य च यज्ज्ञानं तत्परलोकप्रयोजनत्वात् पारलौकिकमिति। अन्नं साधयतीति साधिनैव सिद्धे सिध्यते: सेधयतीति प्रयोगनिवृत्त्यर्थ वचनम्। तदेतन्न वक्तव्यम्, व्यावृत्तेरभावादित्याह-तप इत्यादि भवितव्यमेवेति प्रतिबन्धकस्याभावादित्यर्थः। यत् पुनरपारलौकिकग्रहणम्, तत् पुनः सिध्यते: सेधयतीति प्रयोगनिवृत्तौ चरितार्थ कथं पारलौकिके साधेः प्रयोगं प्रतिबनीयात् ।
यद्यपि सेधयतीति प्रयोगनिवृत्त्यर्थ वचनमुक्तम्, तदप्यसङ्गतमित्याह-षिधु गत्याम् इत्यनेन चेति। सिध्यतेरिति यना निर्देशाद् दैवादिकस्य नाम, नैष प्रयोगो भौवादिकस्य तु को निषेधुं शक्यते। न च अत एव वचनादिति युज्यते वक्तुम्। इह देवादिकस्य ग्रहणे भौवादिकस्य प्रतिषे मशक्यत्वात्। अन्यथा सामान्येनैवात्वमुक्तं स्यात्, ततो यना निर्देशाद् भौवादिकस्य निवृत्तिः। यदाह जयादित्यः - सिध्यतेरिति यना निर्देशः, पिधु गत्यामित्यस्य भौवादिकस्य निवृत्त्यर्थ इति। सिध्यतिनापीति। अत्रात्वविधानस्याभावात्. पारलौकिके भवत्येवेति भावः । विसंवादाभिभवयोर्लियः कारिते कश्चिद् आत्वमाह, तदिह न वक्तव्यम्, प्रकृत्यन्तरेणैव सिद्धत्वादिति दर्शयन्नाह - कस्त्वामित्यादि। तर्हि यदा लीधातुरनयोरर्थयोरनुवर्तते, तदा आत्वस्याभावात् कारितेऽनिष्टरूपमापद्यते इत्याह- विसंवादेत्यादि। रुचादिरयमिति। "प्रलम्भने गृधिवञ्च्योः " (३।२।४२–६३) इत्यनुवर्तमाने "पूजाभिभवयोश्च लाते:" (३।२।४२-६४) इति वचनादात्मनेपदमित्यर्थः। तथा गुणवृद्धिस्थाने यपि च लीधातोरात्वं वेति न वक्तव्यम्। रूपद्वयस्य धातुद्वयेन सिद्धत्वादित्याह