________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद: विस्फुरणमित्यादि। "स्फुरिस्फुल्योर्घञ्योतः" (४।१।७४) इत्यात्वे नामकारितान्ताच्च हेतुविवक्षायामिना सिद्धमिति भावः।
.इनि कृतं स्थानिवदिति 'पुस्फारयिषति, अपुस्फुरत्' इति वर्णविकारः, तत आत्वं वा घान्तस्य पिस्फारयिषति, अपस्फारत्' इति रूपं केन निवार्यते। “वेतेः प्रजने वा" इति न वक्तव्यम्, प्रजनो गर्भग्रहणं जन्मन उपक्रमो वेति, तस्मिन् वर्तमानस्येत्याह- डु वपिरित्यादि। वातिर्वा, अनेकार्थत्वाद् धातूनामिति। "सिध्यतेरपारलौकिके" (अ० ६१।४९), तत्राप्यज्ञानार्थस्येति वक्तव्यम्। परलोके प्रयोजनमस्य पारलौकिकम्, न चेत् सिध्यतिरदृष्टफले वर्तते इत्यर्थः। 'अन्नं साधयति, पाकं साधयति। काम्पिल्ले साधयति, राजनि साधयति' इत्याख्यातिपूर्विकायां सम्पदि वर्तते। अपारलौकिक इति किम्? तपस्तापस: सेधयति ज्ञानमस्योत्पद्यते प्रत्यक्षीभवतीति, तं सिध्यन्तं तपः -प्रयाजयति ज्ञानमस्य प्रकाशयति, उत्थापयति विमलीकरोतीत्यर्थ: । अन्न साधयति ब्राह्मणेभ्यो दास्यामीति सत्यपि पारलौकिके भवति सर्वत्रैव पारलौकिकस्य वाक्यविषयत्वात्. सिध्यतेरात्वं सेधयतीति प्रयोगनिवृत्त्यर्थं साधे: प्रतिबन्धाभावादस्ति प्रयोग:, यना निर्देशाद् भौवादिकस्यापि अपारलौकिके नास्त्यात्वमित्यनर्थक वचनमित्याह-तप इत्यादि। विसंवादाभिभवयोर्लियः केचिद् आत्वमिच्छन्ति, केचित् पूजाविसंवादाभिभवेषु, तदनर्थकमित्याह- कस्त्वामित्यादि। _.. भाष्यकारास्तु लीयतेरात्मनेपदमिच्छन्ति, तदालिनातेरात्वं नास्तीति विलाययतीति भवितव्यमेवेति विशेषाभावः। विसंवादाभिभवयोरित्युपलक्षणं पूजायामपि वेदितव्यम्। लियो गणवृद्धिस्थाने यदि चात्वं वेति न वाच्यमित्याह- विलातेत्यादि। अपाद् गुरेर्वा णमीत्यपि न वक्तव्यम्। 'गुरी उद्यमे' (५१०८), "णम् चाभीक्ष्ण्ये द्विश्च पदम्" (४।६।५) 'अपगारम् अपमारम् । अपगोरम्, अपगोरम्' इति। गृधातुरिह उद्यमेऽपि वर्तते इति।। ५६३। .....
.. . [वि० प०]
स्मिजि० एषामाकारे कृते . पूर्ववत् पकारागमः। 'विस्मापयते' इति । हेतुकर्तृभीसम्योरिन्निति रुचादित्वादात्मनेपदम्। “बिभेतेर्हेतुभये वा'' इति वक्तव्यम्। अस्यार्थः - हेतुकर्तृभये वर्तमानस्य 'जि भी भये (२६८) इत्यस्यात्वं वा: भवति। तथा "भियो हेतुभये पुक्" (अ० :७१३ १४०) इत्यपि वक्तव्यम्। ईकारान्तपक्षे सकारागमार्थमिति। तदयुक्तम्, धात्वन्तरेणैव सिद्धत्वाद् इत्याह- भातिरित्यादि। हेतुभयेऽपीति न केवलं दीप्तावित्यपि शब्दार्थ: । हेतुभये रुचादित्वाभ्युपगमादात्मनेपदम् । दीप्तौ तु परस्मैपदमेवभाफ्यत्ति। प्रकाशयतीत्यर्थः। भियः पान्ततापि ज्ञापकात् सिद्धेत्याह- भीषिचिन्तीत्यादि। "भीषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यश्च" (४।५।८३) इति वचनादित्यर्थः । न हि भीषिरूपो. धातुरस्ति य एवम् इका निर्दिश्यते, अत्रापि "हेतुकर्तृभीस्म्योरिन्' (३:४२ १४२-६२) इति रुचादिवचनादात्मनेपदम् ।
विस्फुरणमित्यादि। “स्फुरिस्फुल्योर्घञ्योतः'' (४।१।७४) इत्यात्वम्। “इन् कारितं धात्वर्थे ' (३।२।९) इतीनि कृतेऽपि पुनर्हेतुविवक्षायामिन् । पक्षे 'विस्फोरयति'