________________
कातन्त्रव्याकरणम्
(४।४) धातु से श्वस्तनीसंज्ञक प्रथमपुरुष–एकवचन 'ता' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
४. निमापयति। नि + मि + प् + इन् + अन् + ति। 'नि' उपसर्गपूर्वक 'मि' धातु से इन् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
५. उपदाता। उप + दीङ् + श्वस्तनी-ता। 'उप' उपसर्गपूर्वक 'दीङ् क्षये' (३।८३) धातु से श्वस्तनीविभक्तिसंज्ञक प्रथमपुरुष-एकवचन 'ता' प्रत्यय, “नाम्यन्तयोर्धातुविकरणयोर्गुणः” (३५२) से प्राप्त गुणादेश को बाधकर प्रकृत सूत्र द्वारा ईकार को आकार।
६. उपदापयति। उप + दी + इन् + अन् + ति। 'उप' उपसर्गपूर्वक दीङ्' धातु से इन प्रत्यय, वृद्धि को बाधकर ईकार को आकार, पकारागम, उपदापि' की धातु - संज्ञा, ति-प्रत्यय, अन्-विकरण, इकार को गुणादेश तथा एकार को अय्।
७. उपदायो वर्तते। उप + दीङ् + घञ् + सि। 'उप' उपसर्गपूर्वक 'दीङ्' धातु से घञ् प्रत्यय (इङाभ्यां च-४।५।६), प्रकृत सूत्र से ईकार को आकार, “सिद्धिरिज्वद् ज्णानुबन्धे" (४।१।१) से इन्वद्भाव, "आयिरिच्यादन्तानाम्' (३।६।२०) से आकार को 'आय' 'उपदाय' की लिङ्गसंज्ञा, सि-प्रत्यय तथा सकार को विसर्गादेश।। ५६१ ।
५६२. सनि दीङः [३।४।२२] [सूत्रार्थ] ‘सन्' प्रत्यय के परे रहते 'दीङ्' धातु के अन्त में आकारादेश होता है।। ५६२। [दु० वृ०]
दीङ: सन्याकारो भवति। उपदिदासते। “नाम्यन्तानामनिटाम्" (३।५।१७) इत्यगुणत्वाद् वचनम्।। ५६२ ।
[दु० टी०]
सनि० । “नाम्यन्तानामनिटाम्" (३५१७) इति सनि गणो नास्तीति वचनम्। केचिद् दीङ: सन्यात्त्वं नेच्छन्ति 'दिदीषते' इति भवितव्यम्, तदसत्, न्याससम्मतमेतत् । तथा च पदकारोऽप्याह – दीङः सन्यात्त्वं वक्तव्यम्, अत्र लालायित: फणीति ? दीडश्च अत: सनीति योगविभागे दीङ्ग्रहणं न कर्तव्यं भवति, किन्तु वाक्यभेदे प्रतिपत्तिगौरवं स्यात्।। ५६२।
[बि० टी०]
सनि०। ननु किमर्थमिदं 'मीनातिमिनोत्योर्गुणवृद्धिस्थाने दीङः सनि' इति कृतेऽप्यभिमतं सिध्यति किं पृथग्वचनेन ? सत्यम्, वैचित्र्यार्थम्। “नाम्यन्तानामनिटाम्" (३५१७) इत्यगुणत्वाद् वचनमिति वृत्तिः। ननु कथमिदं संगच्छते, यावता 'उपदायो वर्तते' इति सिद्ध्यर्थं वृत्तिकद् विषयसप्तमीम् उक्तवान्। न ह्यन्यथैव सिध्यति ततश्च विषयत्वादेवात्वं स्यादिति। कुतो नाम्यन्तानामित्यस्यावसरः ? सत्यम्। पूर्वेण गुण