________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
[दु० टी०]
स्वापेः। स्वापेरितीनन्तानुकरणम्, नहि स्वापरूपो धातुरस्ति। य इका निर्दिश्यते इति हदि कृत्वाह – इनन्तस्येति। किमिति किमर्थमिनन्तो निर्दिश्यते स्वपश्चणीत्युक्ते - प्यर्थादिना व्यवधाने भविष्यति इनमन्तरेण तदभावात् ? सत्यम्, स्वापेर्घजन्तस्यापि परिग्रहार्थमन्यथा घोऽकारलोपस्य स्थानिवद्भावादनेकवर्णव्यवधानान्न प्राप्नोतीत्याह - स्वापमकरोदसुषुपदिति द्विवचनात् पूर्वं संप्रसारणं समानलोपत्वादिह दी? लघोर्न भवति । चणीति किम् ? स्वाप्यते।। ५४७।
[वि० प०]
स्वापेः। असूषुपदिति, स्वपेहेताविन् । अद्यतन्या दि, चण्, सम्प्रसारणम्, द्विर्वचनम्, दीर्घो लघोर्दीर्घः। न हीह स्वापरूपो धातुरस्ति, येन इक्प्रत्ययेनैवं निर्देश: स्यात्। अत: स्वपिरेवायमिनन्त इति मत्वा बोधयति – स्वापरित्यादि। नन किमर्थमयमिनन्तो निर्दिष्ट: स्वपेश्चणीत्युच्यताम् अर्थादिना व्यवहिते चणि भविष्यति, तेन विना तदभावात् ? सत्यम्। स्वपेर्घजन्तस्यापि यथा स्याद् अन्यथा घोऽकारस्य "इनि लिङ्गस्य" (३। २। १२) इत्यादिना लुप्तस्य स्थानिवद्भावादनेकवर्णव्यवहिते चणि न स्यादित्याहस्वापमकरोदिति। असुषुपदिति। समानलोपत्वादिह दीर्घो लघोर्न भवति ।। ५४७ ।
[समीक्षा]
'असषपत्' इत्यादि प्रयोगों के सिद्ध्यर्थ दोनों ही व्याकरणों में सम्प्रसारण कार्य का विधान किया गया है। पाणिनि का सूत्र है - "स्वापेश्चडि'' (अ० ६। १ । १८)। पाणिनीय चङ् प्रत्यय में जो कार्य ‘ङ्' अनुबन्ध का है वही कातन्त्रव्याकरण के चण्प्रत्ययगत 'ण' अनुबन्ध का समझना चाहिए। अत: उभयत्र समानता है।
[रूपसिद्धि]
१. असूषुपत्। अट् + स्वप् + इन् + चण् + अद्यतनी-दि। स्वपन्तं प्रायुक्त। 'जि ष्वप शये' (२०३२) धातु से "धातोश्च हेतो' (३।२। १०) सूत्र द्वारा इन् प्रत्यय, "अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचमु' (३। ६ । ८) से उपधावृद्धि, “ते धातवः" (३।२।१६) से 'स्वापि' की धातुसंज्ञा, अद्यतनीसंज्ञक परस्मैपद प्रथमपुरुष-एकवचन 'दि' प्रत्यय, "अड् धात्वादिस्तिन्यद्यतनोक्रियातिपत्निप'' (३। ८। १६) से अडागम, “श्रिद्रुस्रुकमिकारितान्तेभ्यश्चण् कर्तरि'' (३।२।२६) से चण् प्रत्यय, प्रकृत सूत्र से सम्प्रसारण, "चण्परोक्षाचक्रीयितमनन्तंषु'' (३।३।७) से 'सुप्' को द्विवंचन, 'अ + सुप् + सुपि + चण् + दि' इस अवस्था में पूर्ववर्ती सप को अभ्याससंज्ञा, अभ्यासघटित पकार का लोप, सन्वद्भाव, "टीलघाः' (३। ३। ३६) से दीर्घ, कारितलोप तथा "निमित्तात् प्रत्ययविकारागमस्थ: स: पत्वम्'' (३।८।२६) से सकार को पकागदेश ।।५४७ ।