________________
४८७
तृतीये आख्याताध्यायेऽष्टमो घुडादिपादः ४८७ दीधीवेवीट्समः कश्चिद् गुणवृद्ध्योरभाजनम् ।
क्विप्प्रत्ययनिभः कश्चिद् यत्र सन्निहिते न ते ।। [विशेष वचन] १. एकं पूर्वमैकारमपेक्ष्यापरं चौकारमपेक्ष्य इति (दु० वृ०) । २. द्विग्रहणं स्पष्टार्थम् । किमियं सप्तमी प्रथमाद्विवचनं वेति बाला: विप्रतिपद्यन्ते
(दु० टी०)। ३. द्विशब्दसनिधानादिह पूर्वशब्दद्वयं वेदितव्यम्, अतो नोक्तदोषप्रसङ्गः (वि० प०) ||८५४।
८५५. आरुत्तरे च वृद्धिः [३।८।३५] [सूत्रार्थ
'आर्' तथा सन्ध्यक्षरसंज्ञक “ए-ऐ-ओ-औ' वर्गों में उत्तरवर्ती 'ऐ-औ' वर्गों की वृद्धिसंज्ञा होती है ।।८५५।
[दु० वृ०] ___ आर् उत्तरे च द्वे सन्ध्यक्षरे वृद्धिरिति सज्ञिते । आर्, ऐ, औ । वृद्धिप्रदेशा: - "वृद्धिरादौ सणे" (२।६।४९) इत्येवमादयः ॥८५५।
।। इति दौर्गसिंह्यां वृत्तावाख्याते तृतीयाध्यायेऽष्टमो धुडादिपादः समाप्तः ।।
[दु० टी०] आ० । इहापि पूर्ववद् व्याख्यानम् ।।८५५। ।। इत्याचार्यदुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायामाख्याते
तृतीयाध्यायेऽष्टमो घुडादिपादः समाप्तः ।।
[वि० प०] आर्० । अत्रापि द्वे इत्यनुवर्तते । द्विवचनसनिधानाच्चोत्तरपदद्वयं पूर्ववद् वेदितव्यम्
11८५५
।। इत्याचार्यश्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायामाख्यातेऽष्टमो
धुडादिपादः समाप्तः ।। [समीक्षा]
वृद्धिसंज्ञा प्राय: सभी व्याकरणों में की गई है । गुणसंज्ञा की तरह वृद्धिसंज्ञा के सज्ञियों में पाणिनि आदि आचार्य 'आर्' की जगह 'आ' का ही पाठ करते हैं, जिससे उन्हें सर्वत्र रपर का भी विधान करना पड़ता है - "उरण रपरः" (अ० १११।५१)। पाणिनि ने अष्टाध्यायी के प्रारम्भ में वृद्धि' शब्द से आदिमङ्गल, “भूवादयो धातवः"