________________
१४
कातन्त्रव्याकरणम्
[बि० टी० ]
व्यथे॰। ननु पूर्वत्र 'व्यथ्युभयेषाम्' इति कथन्न कृतम् ? सत्यम्। वैचित्र्यार्थमिति। ननु व्यथिना सह तत्पुरुषे विद्यमानसहशब्दार्थोऽपि स्याच्चेत्, असम्भवान्न स्यात् । नन्वेकयोगे पूर्वस्य गुण्यर्थत्वाद् 'विव्यथे विव्यथाते, विव्यथिरे' इति न सिध्यति, कथमेकयोगोऽनेन समर्थितः ? सत्यम्, एकयोगे सति व्यधातोः सम्प्रसारणासिद्धौ तदुपादानमगुणार्थं भविष्यति। यथा पृथग्योगे परोक्षानुवृत्तौ व्याख्यायते, तद्वदेकयोगेऽपि व्याख्यातव्य इत्याशयः। ननु यदि एकयोगेऽपि अगुणपरीक्षालाभस्तत् कथं पृथक्करणमिति चेत्, अत एव पाठाद् गुणिन्या: परोक्षाया लाभ इत्यपि सन्देहः स्यात् । यथा द्युतादीनामात्मनेपदमप्यस्तीति, तद्वदत्रापि स्यात् । तर्हि पृथक्करणेन किम् ? सत्यम् । एतदर्थमेव चकारोऽत्र विधेयः । एकयोग इति सम्प्रदायः ।। ५४४ ।
[समीक्षा]
'विव्यथे विव्यथाते, विव्यथिरे' इत्यादि शब्दरूपों के सिद्ध्यर्थ अभ्यासघटित यकार का सम्प्रसारणविधान अपेक्षित होता है। अतः इसका निर्देश उभयत्र किया गया है । पाणिनि का सूत्र है - "व्यथो लिटि" (अ० ७ । ४ । ६८ ) । परोक्षभूत अर्थ में पाणिनि ने लिट् शब्द का प्रयोग किया है – “परोक्षे लिट् ” (अ० ३ । २ । ११५) । यह लिट् संज्ञा अत्यन्त कृत्रिम है, जबकि कातन्त्रकार द्वारा उस अर्थ में प्रयुक्त 'परोक्षा' संज्ञा अन्वर्थ है "स्मेनातीते, परोक्षा" (३। १ । १२-१३)।
-
[विशेष वचन ]
१. ननु पूर्वत्र व्यथ्युभयेषाम्' इति कथन्न कृतम् ? सत्यम्, (बि० टी० ) ।
वैचित्र्यार्थमिति
२. तर्हि पृथक्करणेन किम् ? सत्यम्, एतदर्थमेव चकारो विधेयः, एकयोग इति सम्प्रदाय (बि० टी० ) ।
[रूपसिद्धि]
१. विव्यथे । व्यथ् + परोक्षा ए। ‘व्यथ दु:खभयचलनयो:' (१। ४९३) धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद-प्रथमपुरुष एकवचन 'ए' प्रत्यय द्विवचन, अभ्याससंज्ञा, थकार का लोप तथा सम्प्रसारण।
२. विव्यथाते। व्यथ् + परोक्षा आते। 'व्यथ दुःखभयचलनयाँ ' (१ । ४९०) धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद - प्रथमपुरुष – द्विवचन आते प्रत्यय द्विवचनादि तथा प्रकृत सूत्र से सम्प्रसारण ।
३. विव्यथिरे। व्यथ् + परोक्षा इरे। 'व्यथ दुःखभयचलनया: ' (१ । ४९० ) द्विवचनादि तथा
धातु से परोक्षासंज्ञक आत्मनेपद-प्रथमपुरुष बहुवचन 'इरे' प्रत्यय. प्रकृत सूत्र द्वारा अभ्यासघटित यकार को सम्प्रसारणादेश ।। ५४४ ।