________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद:
५४५. न वाश्व्योरगुणे च [३। ४।६] [सूत्रार्थ]
'वेञ् तन्तुसन्ताने' (१ । ६११) तथा 'टु ओ शिव गतिवृद्ध्यो:' (१ । ६१६) धातुओं के अभ्यास में वर्तमान अन्तस्थासंज्ञक वर्गों का सम्प्रसारण नहीं होता है, गुणी तथा अगुण परोक्षाविभक्ति के परे रहने पर।। ५४५ ।
[दु० वृ०]
'वेञ् – श्वि' इत्येतयोरभ्यासस्यान्तस्थायाः सपरस्वराया: सम्प्रसारणं न भवति, अगुणे गणिनि च परोक्षायां परत:। ववौ, ववतुः, वत्: वविथ। शिश्वाय, शिश्वियत:, शिश्वियः, शिश्वयिथ। अगुण इति वचनाद् वेजोऽनभ्यासोऽपि गृह्यते। श्वयतेर्वेति परस्य विभाषास्त्येव।। ५४५।
[दु० टी०]
न वा० । यजादित्वात् प्राप्ते प्रतिषेधे उच्यते, सत्यपि वारूपत्वेऽत्र न वातेरित्याह - वेत्रित्यादि। परोक्षायां विषयेऽगुणप्रत्यय इति सम्बन्धः। चकारोऽनुक्तसमुच्चयार्थ इत्याह – अगुणे गुणिनि चेति। ननु किमर्थमगुणग्रहणं वयेः कृतसम्प्रसारणस्य द्विवचनम् अनादेशस्य च वेञो यजादित्वात् संप्रसारणमस्ति प्रतिषेधाभावात् तथैव। सत्यम्, अगुण इति वचनाद् वेोऽनभ्यासोऽपि गृह्यते, तेन तस्यापि प्रतिषेधो भवति, सत्यपि वा अभ्यासाधिकारे परस्य सम्प्रसारणं नास्तीत्यनुमीयते। अभ्यासो वा न वर्तते अविशेषेण प्रतिषेध इति अयमेव पक्षो ज्यायान्। पूर्वाभ्यां तु पक्षाभ्यां वक्ष्यमाणेऽभ्यासनिवृत्तिं प्रतीष्टाश्रयणं स्यात्। श्वयतेस्तु नैतत् प्रयोजनम् “श्वयतेर्वा" (३। ४। १२) इत्यनेन परस्य विभाषाऽस्त्येवेति कृतसम्प्रसारणस्य द्विवचनम्। पक्षे तु अभ्यासस्य श्वयतेरगुणे प्रतिषेधोत्राविशेषादित्याह - अगुण इति। वचनाद् इत्यादि। तथापि किमेतेनागुणवचनेन वयेरेव सम्प्रसारणं न प्रकृतेरिति नियमः क्रियते, स च नियमः परोक्षायामेव तस्यां वयेविषयत्वाद् यजादिपाठसामर्थ्याच्च वेबो यणाशिषोः सम्प्रसारणं भवत्येव।।
ननु "परोक्षायामभ्यासस्योभयेषाम्" (३। ४। ४) इति चरितार्थत्वात् कथं नियम इति चेदुत्तरत्राकरणात् तीदमेवागुणग्रहणं ज्ञापयति–वारूपस्य पक्षे सम्प्रसारणमिति। वेजः सम्प्रसारणे उवादेशे सति द्विर्वचनं सिद्धम्। उवतुः, उवुः' इति वयेरगुणे विभाषया वादेशो न वक्तव्य एव। कश्चिद् आह - वातेरत्रानेकार्थत्वाद् धातूनां तन्तुसन्ताने वृत्तिरिति। तदेतदभ्यासाधिकारनिवृत्त्यर्थ सुखार्थं चेति मन्यते।। ५४५।
[वि० प०]
न वाश्व्यो०। वेञ्–श्वी' इति सत्यपि वारूपत्वे 'वेञ् तन्तुसन्ताने' (१ । ६११) इत्यस्यैव प्रतिषेधो न ‘वा गतिगन्धनयोः' (२। १७) इत्यस्य, प्राप्तेरभावात्। तदभावश्च यजादिष्वपाठात्। अथागुणे प्रत्यये कथमभ्यासस्य सम्प्रसारणप्रतिषेध उपपद्यते। तथाहि,