________________
४८०
कातन्त्रव्याकरणम्
यथा मेघमन्तरेणाभवन्त्यावृष्टमेघो निमित्तम् । इह पुनरिटो विधिना सनि द्विवचनमिति सनन्तविषये "स्वरादेर्द्वितीयस्य' (३।३।२) इतीटो विधिनाऽधिकारसूत्रेण "चणपरोक्षाचेक्रीयित०" (३।३।७) इत्यादिना द्विवचनम्, अतः कार्यित्वमिटो निमित्तमिति पूर्व स्वरादेशो गुणः, पश्चाद् रेफसहितस्येटो द्विवचनमिति भावः । ननु यथा बीजस्याङ्कुरोत्पत्ती कार्यिणोऽपि निमित्तत्वम्, तेन बीजेन विना तस्याङ्करस्याभावात् तथेटोऽपि स्यात् । ततो यथा प्रोर्णनविषतीत्यत्र सन्भक्तत्वादिटो द्विर्वचने निमित्ते कृते द्विर्वचने पश्चाद गण: स्वरविधिः । एवमर्तेरपि "स्मियू०" (३।७।११) इत्यदिना कृतस्येट: "स्वरादेर्द्वितीयस्य" (३।३।२) इति द्विवंचने पश्चाद् गुणः । स्वरविधिरिति । अरीषतीति भवितव्यम्, कथम् अरिरिषतीति । तदयुक्तम्, न रवल्वत्र शास्त्रे कार्यिणो निमित्तत्वमाश्रीयते, सर्वत्र तद्भावस्य भेदेनैवाभिधानात्, यथा कार्यिनिमित्तं कार्यमिति यदि च कार्यिणो निर्देशक्रमः इति निमित्तत्वमाश्रीयते, तदा कथमेतीत्यत्र गुण: स्यात्, ‘इण् गतौ' (२।१३) इत्यस्य णानुबन्धत्वात्? तस्मान शास्त्रे कार्यिणो निमित्तत्वमाश्रीयते । अत एव तत्र णानुबन्धप्रत्यय एवेति निश्चितम्। कथमित्यादि। 'इषु इच्छायाम, उष दाहे' (५।७०; १।२२९) द्विवंचने कृते पश्चाद उपधालक्षणो गुण: स्वरविधिस्ततश्च 'स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति स्थानिवत्' (का० परि० ९) इति इकारोकारयोः स्थानिवत्त्वात् सवर्णत्वाद् "अभ्यासस्यासवणे' (३।४।५६) इति इयुवौ न स्याताम् इति पूर्वपक्षार्थः । परिहारमाह- नेत्यादि । अन्यथाऽत्रासवर्णग्रहणमनर्थकमेव स्यात् । कथमनर्थकम् “अतिपिपयोश्च" (३1३।२५) इतीत्त्वे कृते 'इत्यात्, इयूयाताम्' इत्यादौ सार्वधातुकत्वात् ? सत्यम्, उवादेशं प्रत्यनर्थकमेवासवर्णग्रहणम् एकवाक्यनिर्दिष्टत्वाद् इयादेशं प्रत्यपि स्थानिवद्भावस्य ज्ञापकं भवतीत्यदोष: ।।८५०।
[बि० टी०]
स्वरविधिः । स्वरविधिरिति किमिति वृत्तिः । स्वरस्य स्थाने विधिरिति किमित्यर्थः। ननु सम्प्रसारणमपि स्वरस्य स्थाने, तथा च "सपरस्वरायाः" (३।४।१) इति सम्प्रसारणम्। यद्यपि अन्तस्थाया इत्युक्तमस्ति, तेन नियमस्तु न शक्यते । तथाहि "नाम्यन्तयो_तुविकरणयोः" (३।५।१) इत्यत्र गुणप्रसङ्गे अर: एकदेशेन रेफेणान्तरतम्याद् ऋकारस्य स्थानित्वं प्रतिपादितं मूर्धन्यत्वादिति स्वरमात्रस्थानित्वे वा किं प्रमाणम् ? सत्यम्, स्वरमात्रस्थानी विधिZाते. अन्यथा "द्वयमभ्यस्तम्' (३।३।५) इत्यत्र द्वयंग्रहणम् "अभ्यस्तस्य च" (३।४।१५) इत्यत्राभ्यस्तनिमित्तमुपचारार्थमिति विवृतम् । तत्र यदि सम्प्रसारण र स्वरविधित्वेनोपादेयता एकदेशस्य स्यात्, तदा द्विर्वचने सत्येव सम्प्रसारणात् कुत उपचारस्य फलमास्थेयम् । अथ स्वरस्य स्थाने विधिरित्यनेन स्वरस्य कार्यित्वं यत्र तदादेश एव गृह्यते, तत्र पुनरन्तस्थायाः कार्यित्वं चेत्, नैवम् । “सपरस्वराया:" (३।४।१) इत्यत्र सहग्रहणात् स्वरस्य कार्यित्वम् प्रतिपादितं टीकाकृता, तस्मादुक्त एव सिद्धान्तः ।।८५०।
[समीक्षा
'पपतुः, पपुः, जग्मतुः, निनाय, चक्रतुः' इत्यादि शब्दरूपों के सिद्ध्यर्थ आकारलोपद्विर्वचनादि की आवश्यकता होती है । इसका निर्वाह दोनों व्याकरणों में किया गया है।