________________
तृतीये आख्याताध्यायेऽष्टमो धुडादिपादः
४७९ चणादाववयवार्थकत्वाच्च समदायस्येति । वर्णग्रहणे तदादौ कार्यसम्प्रत्यय इति परिभाषामाश्रयत्यन्य इत्याह - स्वरादावित्यादि । पूर्वस्मिन् परस्मिन्निति प्रक्रियामपेक्ष्योच्यते द्वे आवृत्ती भवतः इति नात्र नियमः, परस्मिन् देशे एवेति । द्वि:प्रयोगो द्विरुच्चारणं परस्मिन् प्रयोगोऽस्तीति अतिनैकट्यात् । प्रायेण तु प्रक्रियायां पूर्वस्मिन् द्विवचनं कुरुते प्रसिद्धिवशाच्च प्रागुपन्यस्तमिति स्वरस्थाने विधिरिति किमर्थमुक्तं स्यात् । विधीयते इति विधिः, कर्मसाधनोऽयं न भावसाधनः । विधानं विधिरिति स्वरो विधातव्य इत्यर्थे वृद्धिसम्प्रसारणान्येव च स्युः । पपतुरिति । पश्चाद् आलोपोऽसार्वधातुके भवति । आटिटदिति। पश्चात् कारितलोपः, तथा जग्मतुरित्युपधालोप: । अन्यथा नित्यत्वादन्तरङ्गत्वाच्च स्वरविधिरेव स्यात् । न चात्र स्थानिवदभावोऽस्ति तस्य द्विर्वचनं प्रति प्रतिषेधात् । इयायेति द्विवंचने कते पश्चाद् वृद्धौ कृतायाम् "अभ्यासस्यासवणे' (३।४।५६) इतीयादेशो भवति । एवं निनायेति पश्चाद् वृद्ध्यावादेशौ । निन्यतुरिति । प्रागिरादेशः प्राप्नोति एकाक्षरत्वात् । दुयूषतीति । "च्छ्वोः शूटौ पञ्चमे च" (४।१।५६) इत्यूडादेशे सति प्राक् षत्वं स्यादेवेत्यर्थः । येनेत्यादि। कार्यमपि निमित्तं भवति, यथा बीजमङ्करस्य, यद्यप्यन्यस्मात् कारणाज्जायते, तथापि बीजमिह निमित्तम् । इह त्विटो विधिना सनि द्विवचनमिति विधिना सूत्रेण सनन्त विषये द्विर्वचनं "स्वरादेर्द्वितीयस्य" (३।३।२) इति, न चात्र द्विवचने 'जग्मिव' इतिवद् इटो निमित्तत्वम् । कथमिति । इषेरुषेश्च कृते द्विर्वचने पश्चाद् गुणस्ततश्च स्वरादेश इत्यादिना न सवर्णत्वादियादेशः। परिहारमाह - असवर्ण इति वचनात्, अन्यथा ह्यभ्यासस्यासवर्ण इत्यत्रासवर्णग्रहणमनर्थकं स्यात् । केचिद् इह कृतग्रहणं न पठन्ति, लुग्लोपे न प्रत्ययकृतमित्यतो नत्रमनुवर्तयन्ति । द्विर्वचननिमित्तस्वरे द्विवचने कर्तव्ये स्वरविधिर्न स्यात्, कृते द्विर्वचने पश्चाद् भवतीत्यर्थः,एतच्च द्विवचनग्रहणसामर्थ्यादिति ।।८५०।।
[वि० प०]
स्वरविधिः । द्विर्वचनं द्वि:प्रयोगो द्विरुच्चारणमित्यर्थः । नात्र नियमः परस्मिन्नेव देशे तद् भवतीत्याह – पूर्वस्मिन्निति । अत्रापि नियमो नास्तीत्याह- परस्मिन्निति । यद्यपि परस्मिन् प्रत्ययोऽस्तीति नैकट्यात् परस्मिन्नेव द्विर्वचनं प्राप्नोति, तथापि प्रकृतीनां प्रायेण पूर्वस्मिन् द्विवचनं क्रियते, साध्यक्षति: पुनरुभयथापि नास्तीति पर्वस्मिन् परस्मिन वा इत्युक्तम् । विधिशब्दः कर्मसाधनः, विधीयते इति विधिः कार्यम्, न पुनर्विधानं विधिरिति भावसाधनः, तदा स्वरस्येति कर्मणि षष्ठी, स्वरो विधातव्य इत्यर्थ: स्यात् । एवं च सति स्वरविधिरिह वृद्ध्यादिकमेव स्यात्, न लोपादिकम्, तस्य विनाशरूपत्वादित्याह - स्वरस्य स्थाने विधिरिति । नित्यत्वादन्तरङ्गत्वाच्च "आलोपोऽसार्वधातुके" (३।४।२७) इत्यादिना स्वरस्य लोपे वृद्ध्यादौ कृते पपतुरित्यादयो न स्युरिति प्राग द्विवचनारम्भः ।।
असूषुपदिति । "स्वापेश्चणि" (३।४।८) इति सम्प्रसारणम्, न हि स्वरव्यञ्जनयोर्विधि: स्वरविधिरिति भवितुमर्हतीति । जेघ्रीयते इति । "घ्राध्मोरी" (३।४।७७) इतीत्त्वे पश्चाद् द्विर्वचनम् । दुयूषतीति । दिवः सन्, “छ्वोः शूटौ पञ्चमे च" (४।१।५६) इति वकारस्योट, नासौ द्विर्वचननिमित्त इति । तस्मिन् प्राक् षत्वम्, ततो द्विर्वचनम् । येनेत्यादि।