________________
कातन्त्रव्याकरणम्
तिष्ठतीत्याधाराधेयभावो न युज्यते सकारमात्रत्वात् । अर्थवत्ता व्यपदेशिन् इत्युक्तम्, भूषणाद्यर्थस्य द्योतकत्वादर्थवत्तास्तीत्यदोषः । एवं सिजादीनामप्यर्थवत्तास्तीति प्रत्ययस्थ इत्युच्यते । तर्हि विकारसकारस्यानर्थक्याद् विकारस्थ इति न युज्यते ? सत्यम्, नार्थवत्तामपेक्ष्य व्यपदेशिवद्भावः, किन्तर्हि समुदायैकदेशापेक्षायाम्- 'सिषेव, तिष्ठासति, परिष्वज्यते' इत्यादिषु यः सकारसमुदायो विकारस्तत्र तिष्ठतीति, अथवा विकरणं विकारः, क्रियाया: सम्बन्धित्वेन सकार उपादीयते । उपसर्गादित्यादि । उपसर्गस्थं निमित्तमुपसर्ग इहेति । तेन निसोऽपि स्यात् - निषुणोति । अभिषेणयतीति । यदा प्रागभिना सह सम्बन्ध: सुनोतेस्तदा षत्वम्, यदा त्विनन्तेन सम्बन्धस्तदा न षत्वम्, नासावुपसर्गः सुनोतेरिति । कृतद्विर्वचनानां नेष्यते - अभिसुसूषति, अभ्यसुसूषत; परिसुसूषति, परिसुसूषत्, पर्यसुसूषत्, अभिसिसासति, अभ्यसिसासत् । स्थासेनीत्यादि । अडभ्यासान्तरश्चेति । अन्तरश्चेत्यर्थः ।
४७०
स्वन्जेस्तु परोक्षायामभ्यासस्यापिग्रहणात् - अभिषस्वजे । सेधतीति तिब्निर्देशः सिध्यतिनिवृत्त्यर्थः । सदेरप्रतेरिति । परोक्षायामभ्यासस्यैवापिग्रहणादेव - निषसाद, विषसाद । प्रतेरपि स्तन्भेरिति । अपिग्रहणमुपसर्गानुवर्तनार्थम् । एवं वितिष्टम्भिषति, वितष्टम्भ । अपिग्रहणादेव चणि न स्यात् व्यतस्तम्भत् । प्रतिस्तब्धनिस्तब्धयोर्न षत्वम् । अवादोर्जित्यनिकटाश्रयेष्विति । एष्वर्थेषु वर्तमानस्य स्तन्भेरित्यर्थः, अत्रापि न चणि षत्वम्। अवास्तम्भत् । वेश्च स्वनो भोजने इति । चकारोऽवानुकर्षणार्थः, सशब्दं भोजनं स्वनेरर्थ इत्याहुः । अपरो भोजने स्वनो भोजनमिति । एवमित्यादि । परिनिविभ्यः सेवते : परिषेवते, पर्यषेवत, परिषिषेव । एवं निषेवते, विषेवते । सयसितयोश्च - परिषयः, निषयः, विषयः, परिषितम्, निषितम्, विषितम् । 'षिञ् बन्धने' (४|२; ८|५) अच् प्रत्ययः क्तप्रत्ययश्च । अन्ये तु स्यतेरपि ग्रहणमिच्छन्ति, ते परिनिविभ्य एवेति नियमार्थमभ्यासान्तरश्चेति न सम्बध्यते - मा विषसयत्, मा पर्यषसयत् । सीव्यतेरचणि - परिषीव्यति, निषीव्यति, विषीव्यति । चणि तु मापरिसीसिवत् ।
-
अनोऽकारस्य सहश्च - परिषहते, निषहते, विषहते । चणि तु मापरिसीषहत् । अनोऽकारस्येत्येव – परिसोढः, निसोढः, विसोढः । अडन्तरयोर्विभाषा - पर्यषीव्यत्, पर्यसीव्यत् । न्यषीव्यत्, न्यसीव्यत् । व्यषीव्यत्, व्यसीव्यत् । पर्यषहत, पर्यसहत, न्यषहत, न्यसहत । व्यषहत, व्यसहत । स्तौतिस्वन्जोरपि पर्यष्टौत्, पर्यस्तौत् न्यष्टौत्, न्यस्तौत् । व्यष्टौत्, व्यस्तौत् । पर्यष्वजत, पर्यस्व त । न्यष्वजत, न्यस्वजत । व्यष्वजत, व्यस्वजत । अन्वभिभ्यां च स्यन्दतेरप्राणिकर्तृकस्य वा - अनुष्यन्दते, अनुस्यन्दते । अभिष्यन्दते, अभिस्यन्दते । परिष्यन्दते, परिस्यन्दते । निष्यन्दते निस्यन्दते । विष्यन्दते, विस्यन्दते । अप्राणीति पर्युदासोऽयम् । तेन मृतो वत्सोऽनुष्यन्दते, अनुस्यन्दते इति वा स्यादेव । वेरनिष्ठायां स्कन्दे : - विष्कन्दते, विस्कन्दते । निष्ठायान्तु विष्कन्नः, विष्कन्नवान् । परेर्निष्ठायामपि - परिष्कन्दते, परिस्कन्दते, परिष्कन्नः, परिस्कन्नः, परिष्कन्नवान्, परिस्कन्नवान्। निर्निविभ्यश्च स्फुरिस्फुल्योः - निःष्फुरति निःस्फुरति । निष्फुरति निस्फुरति । विष्फुरति, विस्फुरति । निःष्फुलति, निःस्फुलति । निष्फलति निस्फुलति । विष्फुलति,
1
-
-
,
-