________________
तृतीये आख्याताध्यायेऽष्टमो घुडादिपादः
४७१ विस्फुलति । वे: स्कभ्नातेर्नित्यम् – विष्कभ्नाति, विष्कभिता । तिग्निर्देशः स्कम्भतेर्निवृत्त्यर्थ:विस्कम्भते । निर्दु:सुविभ्यः सूतेः - नि:पुतिः, दुःषुतिः, सुषुतिः, विषुतिः । अवकारस्य स्वपेः - निःषुप्तः, दुःषुप्तः, सुषुप्तः, विषुप्तः । अवकारस्येत्येव - नि:स्वापः, दुःस्वापः, सुस्वापः, विस्वाप: । प्रादुरुपसर्गाभ्यामस्ते: स्वरयकारयोः – प्रादुःषन्ति, प्रादुःष्यात्, अभिषन्ति, अभिष्यात् । अपिग्रहणादेव प्रतेर्न सुटः - प्रतिस्कीर्णं ते वृषल ! भूयात् । सत्स्वपि सूत्रेषु व्यभिचारो दृश्यते, तस्माद् बाहुल्याश्रयणमेव श्रेय इति ।।८४६।
[वि० प०]
निमित्तात्० । सर्पिष्यति, धनुष्यतीति सृपेरिस्, धनेरुस् इति प्रत्ययस्थत्वात् यिनि षत्वम् । वचनादित्यादि । “सुड् भूषणे सम्पर्युपात्' (३।७।३८) इति सुट्, अत एवान्त्यार्थोऽयमारम्भ इत्युक्तम् । एतदर्थं च क्रियमाणमनन्त्यार्थमपि भवतीति चिचीषतीत्याद्यप्युदाहृतम् । व्यपदेशिवद्भावादिति सकारमात्रत्वादस्यागमे तिष्ठतीत्याधाराधेयभावो न युज्यते । अतो व्यपदेशिवद्भावेनात्रागमस्थत्वात् षत्वमित्यर्थः । ननु किमर्थमिदं तत्रापिग्रहणादेव परिष्करोतीत्यस्मिन्नपि षत्वं भविष्यतीत्याह- तस्यैवेत्यादि। तथा इत्यपिशब्दस्य बहुलत्वादित्यर्थः । उपसर्गस्थनिमित्तमुपचारादुपसर्ग इहोच्यते । वेश्चेति चकारादवाच्चेत्यर्थः । शिष्टप्रयोगानुसारेणापरेऽप्येवं वेदितव्या इत्याह- एवमित्यादि ।।८४६।
[बि० टी०]
निमि० । अन्त्यार्थोऽयमारम्भ इत्यादि । एतच्च टीकायां स्टं प्रत्येवोक्तम् । तथा च परिष्करोतीत्यत्र प्रयोजनं ज्ञातव्यम् । यस्यैवानन्त्यस्येति न्यायानिमित्ताभावादन्त्यसमीपस्यान्त्यत्वाच्च षत्वं न स्यात् । अत एव ज्ञापकात् परिशब्देन सुटः सम्बन्धात् षत्वमित्यर्थः। यत्तु अन्त्यसमीपोऽन्त्य इत्युक्तम्, तदपि तवर्गादेशं प्रत्येव षत्वम् पुनर्न स्यात् कृसरधूसरादिष्वित्यनेन प्रतिषेधसामर्थ्यादेव तत्स्थं न स्यात् । अन्यथा कृसरधूसरशब्दयोरन्तयोः समीपत्वादेव षत्वं न भविष्यति किं प्रतिषेधेन, किञ्च 'न सात् कृसर०' (कात० परि० ष० ४१) इति सूत्रं ज्ञापयति- मूर्धन्यस्तु पदादप्यादेश: स्यात् तच्चापवादादेव ज्ञापकात् पदात् ज्ञापयति – पदात् पदादिसस्य षत्वं वर्णयतीति ततश्चोपसर्गात् सुनोतीत्यादिवचनं विध्यर्थम् । परिष्करोतीत्यत्र पुनर्विधेरभावात् षत्वं न स्यादित्याह - अन्त्यार्थ इति । अन्त्यसमीपोऽन्त्य एवार्थः प्रयोजनमस्येत्यर्थः । ननु यधुपसर्गेभ्य: सुटः सम्बन्धस्तदा 'परिचस्कार' इत्यत्र द्विर्वचने यथा सुटो द्विर्वचनं तथा पर्युपसर्गस्यापि स्यात् चेत्, न । धातोरादौ सुटो विधानाद् धातुग्रहणेन ग्रहणं स्यात् , परन्तु सम्बन्धमाश्रयते षत्वार्थमन्यत्र कुत: स्यात् षत्वं प्रति ज्ञापकात् ॥८४६।
[समीक्षा
'चिचीषति, लुलूषति, चिकीर्षति, परिष्करोति, अग्निषु' आदि शब्दों के सिद्ध्यर्थ दोनों व्याकरणों में सकार को मूर्धन्यादेश किया गया है । पाणिनि के ३ सूत्र हैं - "इएकोः, नुविसर्जनीयशर्व्यवायेऽपि, आदेशप्रत्यययोः'' (अ० ८।३।५७-५९) । यह