________________
४६९
तृतीये आख्याताध्यायेऽष्टमो घुडादिपादः २. नमति। णम् + अन् + ति । ‘णम् प्रह्वत्वे शब्दे च' (१।१५९) धातु से वर्तमानासंज्ञक 'ति' प्रत्यय, प्रकृत सूत्र से णकार को नकार तथा अन् विकरण ।।८४५। ८४६. निमित्तात् प्रत्ययविकारागमस्थः सः षत्वम् [३।८।२६]
[सूत्रार्थ
नामिसंज्ञक वर्ण (इ ई, उ ऊ, ऋ ऋ, ल लु, ए ऐ, ओ औ), क् तथा रेफ से परवर्ती प्रत्ययस्थ, विकारस्थ एवं आगमस्थ दन्त्य सकार को मूर्धन्य षकार आदेश होता है |८४६।
[दु० वृ०]
अन्त्यार्थोऽयमारम्भः । निमित्तान्नामिककाररेफात् पर: प्रत्ययविकारागमस्थ: स: षत्वमापद्यते । नामिनस्तावत् - चिचीषति, लुलूषति, सर्पिष्यति, धनुष्यति । ककारात् - शक्ष्यति, विवक्षति । रेफात् - चिकीर्षति । विकारस्थ:- सिषेव, सुष्वाप । आगमस्थ:परिष्करोति। वचनाद् भिन्नपदेऽपि व्यपदेशिवभावात् । प्रत्ययविकारागमस्थः इति किम् ? सृप्ल- सिसृप्सति । सेकृ - सिसेकिषति । तस्यैवापिशब्दन्यायं प्रपञ्चार्थ इति । तथा उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतीनामङ्न्तरोऽपि - अभिषुणोति, अभ्यषुणोत्; अभिषुवति, अभ्यषुवत: अभिष्यति, अभ्यष्यतः अभिष्टौति, अभ्यष्टौत; अभिष्टोभते,अभ्यष्टोभत। तथा स्थासेनिषेधतिसिच्सन्जस्वन्जामडभ्यासान्तरश्च - अभिष्ठास्यति, अभ्यष्ठात्, अभितष्ठौ। सेनया अभियाति अभिषेणयति, अभ्यषेणयत्, अभिषिषेणयिषति, प्रतिषेधति, प्रत्यषेधत्, प्रतिषिषेधयिषति; अभिषिञ्चति, अभ्यषिञ्चत्, अभिषिषिक्षति; अभिषजति, अभ्यषजत, अभिषिषक्षति; परिष्वजते, पर्यष्वजत, परिषिष्वङ्क्षते ।
सदेरप्रते: - निषीदति, न्यषीदत्, निषिषत्सति । अप्रतेरिति किम् ? प्रतिसीदति, प्रत्यसीदत्, प्रतिसिसत्सति । प्रतेरपि स्तन्भे:- प्रतिष्टभ्नाति, प्रत्यष्टभ्नात्, प्रतितष्टम्भ । एवम् अभिष्टभ्नाति, अभ्यष्टभ्नात्, अभितष्टम्भ । अवादोर्जित्यनिकटाश्रयेषु - मल्लस्यावष्टम्भः, अवष्टब्धा सेना, दण्डमवष्टभ्यास्ते । एष्विति किम् ? अवस्तब्धो वृषल: । शीतेन सङ्कोचित इत्यर्थः । वेश्च स्वनो भोजने – विष्वणति, अवष्वणति, व्यष्वणत्, अवाष्वणत्, विषष्वाण, अवषष्वाण, सशब्दं भुङ्क्ते इत्यर्थः । एवमन्येऽप्यनुसर्तव्याः ।।८४६।
[दु० टी०]
निमि० । निमित्तानामिककाररेफादिति । नामिनश्च कश्च रश्च नामिकरम्, समाहारद्वन्द्वः । ननु येन विना यन्न भवति तत् तस्य निमित्तम्, तर्हि प्रत्ययविकारागमस्थसकारग्रहणैरपि किं तैर्विना तस्यासिद्धेः । नामिकरपरः प्रत्ययविकारागमस्थ इति वचनानिमित्तवत् षत्वमित्यास्ताम्, एतत्तु न चोद्यम् । एवं तानि निमित्तानि स्युर्यदि षत्वस्य साधकानि सूत्रेणापि किम् ? यस्मात् तस्यैवापिशब्दस्यायं प्रपञ्च इति वक्ष्यति । सर्पिष्यति, धनुष्यतीत्यत्र षत्वार्थमिह प्रत्ययो व्युत्पाद्यः सृपेरिस् धनेरुसिति । कृसरादीनान्तु नेष्यते 'कृधूवाभ्य: सरक्' इति । अपिशब्देन बहुलार्थेन क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिवेंति । व्यपदेशिवभावादिति । आगमे