________________
४६६
कातन्त्रव्याकरणम्
[वि० प०]
धात्वादे: । नामधातुत्वादिति नामार्थसम्मिलितेच्छादिक्रियाभिधायित्वाद् गौणत्वमित्यर्थः । किञ्च धात्वादेरित्यादिशब्दोऽवयवार्थः, अवयवश्चारम्भको भवति, यथा घटादेः कपालादिः । इहाप्यारम्भको यिन्नेव, तस्मिन् सति "ते धातवः" (३।२।१६) इति प्रवर्तनात् । अत: षकारस्य धातोरनवयवत्वादेव न भविष्यतीत्याह- धातोरित्यादि । ष्ठिव्वित्यादि । यदि पुनरस्य धात्वादेः ष: सो भवति तदा स्थिव्विति निर्दिशेदिति भाव: । मतमिति मतद्वयमपि सम्मतमित्यर्थः । तेन "शिट्परोऽघोषः" (३।३।१०) इति षकारलोपे ठकारथकारयोर्द्वितीयचतुर्थयोरित्यादिना प्रथमत्वे रूपद्वयं सिद्धमिति भावः । ष्वक्केरित्यादि । वक्तव्यं व्याख्येयम्। द्विषकारनिर्देशोऽयम् । संयुक्तानां सजातीयानां वर्णानामेकस्यानेकस्य चोच्चारणं प्रति भेदस्याभावादत्र प्रथमषकारो द्वितीयस्यादित्वनिरासार्थं प्रयुक्तः, न धातुग्रहणेन गृह्यते इत्यादेरनवयवत्वादेव न भवति द्वितीयस्यानादित्वादिति ।।
ननु गणे सकार एवोपदिश्यताम् इत्याह - निमित्तादिति । गणपाठशद्ध्यर्थमाहतत्र चेति । मिङ् इत्यादि । 'ष्मिङ् ईषद्धसने, विदा गात्रप्रक्षरणे, ष्वद स्वाद स्वर्द आस्वादने, जि ष्वप् शये' (१।४५७, ४७६, ३०७; २।३२) । एषामोष्ठ्यपरत्वेऽपि षोपदेशत्वमित्यर्थः । 'गम्ल सप्ल गतौ, सृज विसर्गे, स्तृञ् आच्छादने, ष्ट्यै स्त्यै शब्दसंघातयोः, सीकृ सेक सेचने' (१।२७९; ३।११६; ८।१०; १।२७१, २५७, ३३१) एतान् स्वरदन्त्यपरान् वर्जयित्वेत्यर्थः ।।८४४।
[बि० टी०]
धात्वादेः । नन्वनेन किम, गणे दन्त्यसकारः पठ्यताम, विकारस्थत्वात् षत्वार्थ चेत्, कुत्र विकारस्थ: स इत्याह- तत्रेति । स्वरदन्त्यपरा: षोपदेशा: । नन्वत्र ष्विदिष्वदिपाठेन किम्, तथाहि टीकाकारः - एषां वकार ओष्ठ्यो न दन्त्योष्ठ: । अत्र रमानाथ:- एषां वकारो न ओष्ठ्यः, अपि तु दन्त्योष्ठ: । तेनैव सिद्धमिति चेत्, न। स्वपिवचीत्यादौ पाठात् सम्प्रसारणं 'सुप्त:' इत्यादि न स्यात् । मनोरमामतं कथम् उपपद्यते चेत्, 'उभयोः स्थाने यो निष्पद्यते' इत्यादिन्यायाद् एकतरव्यपदेशाददोषः । यथा "उरोष्ठ्योपधस्य च" (३।५।४३) इत्यत्र दन्त्योष्ठ्यादपि संवुवूर्षते इतिवत् । स्वमते तु व्यपदेशाश्रयणं यत्र याथार्थिकव्याख्यानान सिध्यति तत्रैव । कुत एवं व्याख्यातव्यं सम्प्रसारणविधौ अत्र तु आदृतमेव, अन्यथा तदुपादानं व्यर्थं स्यादिति सम्प्रदायः । वस्तुतस्तु स्वरदन्त्यपरा इत्यत्र स्वतन्त्रेण स्वरेण
प्रमादजमेव स्वनतिस्वदत्योरस्याप्यदन्त्यपरत्वादेव निरासात् । अन्यथा स्वपेरुपादानमनर्थकं स्यात् । अत एव पञ्जिकायां नैतादृशः पाठः । यद् वा यद्यपि स्वृधातोर्न षोपदेशत्वं सम्भवति, तथाप्यत्र तनिषेधादन्यस्यापि दन्त्योष्ठवकारपरस्य कस्यचित् षोपदेशत्वमिति ज्ञापितम्, तेन ध्वक्के: षोपदेशत्वं सिद्धम्, न तु सिद्धस्यैव दन्त्योष्ठस्वपादिपाठबलादिति पठन्ति । तेन ज्ञापकत्वं पर्यवस्यति । अन्ये तु वर्णदेशनामते ध्वपादीनामोष्ठ्यवकारत्वात् स्वृधातोर्दन्त्योष्ठवकारस्यापि दन्त्यत्वानिषेधः कृतः इत्याहुः । एतत्तु दुष्टमिव लक्ष्यते इति रमानाथकृता टिप्पणी ।