________________
४६५
तृतीये आख्याताध्यायेऽष्टमो धुडादिपादः नामधातुत्वात् । धातोश्चारम्भको यिन् न षकार इति । "ष्ठिवुक्लम्वाचमामनि" (३।६।६७) इति निर्देशात् ष्ठीवति । ष्ठीवेरपि षकारष्ठकारपरस्थकारपरो वेति मतम् । तेन- 'टेष्ठीव्यते, तेष्ठीव्यते' इति सिद्धम् । ष्वक्केन स्यात् इति वक्तव्यम्- ष्वक्कते । इह निमित्ताद विकारस्थस्य सस्य षत्वार्थः षोपदेशो धातूनामिति । तत्र च स्वरदन्त्यपरा: सादयः षोपदेशा इति । ष्मिष्विदिष्वदिष्वपयश्च, सृपिसृजिस्तृस्त्यासीकृसेकृवर्जम् ।।८४४।
[दु० टी०]
धा० । ननु कथं धातुग्रहणस्य प्रत्युदाहरणम् ‘षट्-षण्ड: इत्युपदेशबलादेव लिङ्गानामादेः षः सो न भविष्यति, तर्हि धातूनाम् इति कथम् ? सत्यम्, वक्ष्यति निमित्ताद् विकारस्थस्य षत्वार्थः षोपदेशो धातूनामिति, तथापि मन्दमतिबोधनार्थं प्रत्युदाहरणं युज्यते लषिता,लषितुमिति षोपदेशस्तर्हि किमर्थमिति "लषपतपदामुकञ्" (४।४।३४) इत्यत्र लषेर्ग्रहणं मा भूत, न कखादावषान्त उपदेश इति नेरुपसर्गात् परस्य णत्वं न स्यात् प्रणिनिनीषतीति । नामधात्त्वादिति। द्रव्यसमवेत क्रियाभिधाने गौणत्वादित्यर्थः । धातोश्चेत्यादि । किञ्चादिशब्दोऽत्रावयववचनः, अवयवश्चारम्भको भवति । न च धातोरारम्भकः षः, किन्तर्हि यिन्निति ।
अपर आह- नाम्यन्ताद् धातोरित्यतो धातोरित्यनुवर्तते, अवयवलक्षणा चेयं षष्ठी। तेनोपदेशे भवतीति लक्ष्यते, नामधातवो नोपदिष्टाः, किन्तर्हि लक्षणेन प्रतिपादिताः । तेष्वनुमानात् प्रकृतिप्रत्ययोपदेशात् सम्प्रत्ययः । ष्ठिवेस्तर्हि "धात्वादेः षः सः" (३।८।२४) इति स्थीवतीत्यपि प्राप्नोति । षकारलक्षणानुरोधाद् धातुः कृतटवर्ग: उच्चार्यते 'ष्ठा गतिनिवृत्तौ' (१।२६७) इति, यथा 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) इति पुनस्थकार इत्याह - ष्ठिवुरित्यादि । धात्वादेः षः सो न भवति, अत एव निर्देशादित्यर्थः । तेष्ठीव्यते इति। थकार एव द्विरुच्यते स्मृतिविषयानुसन्धिप्रत्ययबलाद् अन्यथा अनर्थक एव थकारोपदेश: स्यात् । ठकारपरत्वे धात्वादेः षः सः इति कृते पुनष्ठकारेण सन्निपातेन ष्ठीवतीति सिद्धम् ।
परमतमेतत् । मतमिति मतद्वयमपि प्रमाणमित्यर्थः । ध्वक्केरित्यादि । वक्तव्यं व्याख्येयम् । ष्वक्कतेस्तु षकारोपदेशसामर्थ्यात् सो न भविष्यति चण्परोक्षाचेक्रीयितेषु अभ्यासस्थनिमित्ताभावात् सनि च स्तौतीनन्तयोरेव सनीति नियमात् । गणपाठशुद्ध्यर्थमिदमाहस्वरदन्त्येत्यादि । 'मिङ् ईषद्धसने, विदा गात्रप्रक्षरणे, वद स्वाद स्वर्द आस्वादने, जि ष्वप शये' (१।४५७, ४७६, ३०७; २।३२) । एते च षोपदेशा इत्यर्थः । एषां 'वकार ओष्ठ्यो न दन्त्योष्ठ्य इति भेदेनोच्यते । 'गम्ल सृप्ल गतौ, सृज विसर्गे, स्तृञ् आच्छादने, स्वृ शब्दोपतापयोः, ष्टयै स्त्यै शब्द घातयोः, सीकृ सेक सेचने' (१।२७९; ३।११६, ८।१०; १।२७१, २५७, ३३१) इत्येतान् वर्जयित्वेत्यर्थः ।।८४४।
१. ष्विदादीनां पृथग्वचने हेतुमाह- एषामित्यादि । नत्र भित्रक्रमे योज्यः, वकारो नायमोष्ठ: किन्तु दन्त्योष्ठ्यस्तेन ष्विदादिः पृथगुच्यते इति रमानाथकृतटिप्पणी ।
२. स्वृ शब्दोपतापयोः - अत्र स्तृधातुमपठित्वा स्वृ शब्दोपतापयोरितिपठितम्, तल्लेखक