________________
तृतीये आख्याताध्यायेऽष्टमो घुडादिपादः
४४३ अम्प्रत्यये च "असन्ध्यक्षरयोरस्य तौ तल्लोपश्च" (३।६।४०) इति कृते दीर्घः प्राप्नोतीति भावः। परिहारमाह - वमोरित्यादि। वकारस्तावदयं प्रत्ययादिरेव सम्भवति, तत्साहचर्यान्मकारोऽपि प्रत्ययादिरित्यर्थः । अकारात् परे आनोऽकारान्तस्यैव मोऽन्तो भवतीति । अथवा वकारस्तावत् सस्वर एव प्रत्ययस्य सम्भवति, तत्साहचर्यान्मकारोऽपीत्यर्थः । 'आ' इति सिद्धे दीर्घग्रहणमुत्तरार्थम् ।।८३१।
[वि० प०]
अस्य० । ननु तपरस्तत्कालस्य तविपरीतश्च सामान्यग्राहको वर्ण: । ततोऽस्येति तपरत्वाभावाद् दीर्घस्यापि ग्रहणं भविष्यति। तदयुक्तम् । आकारादाकारस्येकारादीनामिव जात्यन्तरत्वात् कथं तद्ग्रहणेन ग्रहणम् । अत एव तपरस्तत्कालस्येत्यत्र नादृतमेवेति । एतदेव प्रत्युदाहरणेनाह - अस्येत्यादि। अन्यथा 'चिनुवः, चिनुमः' इति प्रत्युदाहर्तुमुचितमिति भावः। साहचर्यादिति । वकारस्तावदयं प्रत्ययस्यादिरेव सम्भवति, तत्साहचर्यान्मकारोऽपि प्रत्ययस्यादिरेव गृह्यते इति। नन् तथापि 'पचमानः' इत्यत्र "आन्मोऽन्त आने" (४।४।७) इत्यनेन मकारागमस्यानग्रहणेन गृह्यमाणत्वादयं प्रत्ययादिरेव मकार इति चेत् , न । तत्सूत्रार्थापरिज्ञानात् । तत्र ह्यकारात् परो य आनस्तस्मिन् अकारान्तस्यैव मोऽन्त इति। अकारान्तग्रहणेन मकारो गृह्यते, न तु आनग्रहणेनेति। अपचम् इत्यत्रापि असन्ध्यक्षरलोपे कृते कुत: प्रसङ्गः, मकारस्यानादित्वात् ।।८३१।। _[बि० टी०]
अस्य० । ननु अकारस्य वमोर्दी? भवन् कथं स्याद् दीर्घ इति चेत्, वमोः परतो दी? भवन यावान अकारो विद्यते तावत्येव स्यात्, तेन 'स्याव, स्याम, स्यावस्, स्यामस्' इत्यादौ संहितेऽपि दीर्घः । वमोर्वर्णयोरिति वृत्तिः। ननु कथमिदमुच्यते यावता मध्यश्चान्तोऽपि विद्यते तस्माद् वकारस्य साहचर्यादित्येव वक्तुं युज्यते ? सत्यम्, वमोरिति नैतत् साहचर्यम्, किन्तर्हि वमोरादिभृतयोरेव दीर्घः । तत्र हेतुमाह - साहचर्यादिति। साहचर्यं पुनर्वकारस्य वेदितव्यम् ।।८३१।
[समीक्षा]
‘पचामि, पचावः, पचामः' इत्यादि शब्दरूपों के सिद्ध्यर्थ उभयत्र दीर्घविधान निर्दिष्ट है। पाणिनि का सूत्र है - "अतो दी? यत्रि'' (अ० ७।३।१०१)। पाणिनीय यञ् प्रत्याहार में 'य, व, र, ल, ञ्, म्, ङ, ण, न्, झ्, भ्' ये ११ वर्ण पढ़े जाते हैं, जब कि उदाहरणों के अनुसार केवल मकार-वकार के ही परे यह दीर्घ आदेश प्रवृत्त होता है। अत: कातन्त्रीय ‘वमो:' पाठ स्पष्टतया तात्पर्यबोधक है, जबकि 'यञ्' पाठ अत्यन्त भ्रामक है।
[विशेष वचन १. तपरस्तत्कालस्य ग्राहकः, अतत्परश्च सामान्यस्य ग्राहकः (दु० टी०)। २. वकारस्तावदयं प्रत्ययादिरेव सम्भवति, तत्साहचर्यान्मकारोऽपि प्रत्ययादिरित्यर्थः (दु० टी०; वि० प०) ।