________________
तृतीये आख्याताध्याये सप्तमः इडागमादिपादः
४२५ [रूपसिद्धि
१. चकृव । कृ + परोक्षा - व । 'डु कृञ् करणे' (७७) धातु से परोक्षाविभक्तिसंज्ञक उ० पु० - द्विव० 'व' प्रत्यय, द्विर्वचनादि तथा प्रकृत सूत्र से इडागम का प्रतिषेध ।
२. चकृम । कृ + परोक्षा-म । 'डु कृञ् करणे' (७।७) धातु से परोक्षाविभक्तिसंज्ञक उ० पु० - ब० व० 'म' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।।
३. चकर्थ । कृ + परोक्षा - थल । 'डु कृञ् करणे' (७।७) धातु से परोक्षासंज्ञक म० पु० - ए० व० 'थल्' प्रत्यय तथा अन्य प्रक्रिया प्राय: पूर्ववत् ।।८१९।
८२०. सुड् भूषणे सम्पर्युपात् [३।७।३८] [सूत्रार्थ]
भूषण अर्थ की विवक्षा में 'सम् - परि - उप' उपसर्गों के बाद आने वाली 'कृ' धातु से पूर्व में सुट का आगम होता है ।।८२०।
[दु० वृ०]
भूषणेऽर्थे सम्पर्युपात् परस्य कृञः सुडादिर्भवति। संस्कर्ता, सञ्चस्कार, समस्कार्षीत्। परिष्कर्ता, परिचस्कार, पर्यस्कार्षीत् । अडभ्यासव्यवधानेऽपि षत्वमिष्यते। उपस्कर्ता, उपचस्कार, उपास्कार्षीत्। एवं समवायेऽपि वक्तव्यम् । भूषणसमवायाभ्यामन्यत्रापि दृश्यते । संस्कृतमिदमनित्यमिति। उपात् प्रतियत्नविकृतवाक्याध्याहारेषु वक्तव्य: । असिपत्रस्योपस्कुरुते,उपस्कृतं भुङ्क्ते । विकृतं भुङ्क्ते इत्यर्थः। उपस्कृतं जल्पति। वाक्याध्याहारं जल्पतीत्यर्थः ।।८२० ।
।।इति दौर्गसिंह्यां वृत्तावाख्याते तृतीयाध्याये
सप्तमः इडागमपादः समाप्तः।।
[दु० टी०]
सुट० । कथं पुन: कृञः कात् पूर्वोऽवसीयते ? सत्यम्, इडागमोऽसार्वधातुकस्यादिरित्यत: आदिग्रहणानुवृत्तेरित्याह - कृञः सुडादिर्भवतीति। उकार उच्चारणार्थः । ढकारोऽपि सुखावबोधार्थ एव। ढकारेण विना रेफेण भवितव्यमिति नास्ति लाघवम् । एवं संस्करोति, परिष्करोति, उपस्करोति कन्याम् , भूषयतीत्यर्थः । समवायेऽपि वक्तव्यमिति । वक्तव्यं व्याख्येयम् । "इवन्तर्द्ध" (३।७।३३) इत्यतो विभाषा बहुलत्वेन प्रतिपत्तव्येति भावः। तत्र नः संस्कृतम्, तत्र नः परिष्कृतम्, तत्र न उपस्कृतम्, समुदितमित्यर्थः। संस्कृतं वचनमिति भाक्तो निर्देश:, भूषणे प्रविशति। इदं तु न सिध्यतीत्याह - संस्कृतमित्यादि । संस्कृतत्वेनानित्यमेव साध्यते, नित्यस्य संस्काराभावात् । उपादित्यादि । पुन: पुन: प्रयत्न: प्रतियत्नः । प्रकृतेरन्यथाभावो विकृतिः। सतोऽर्थस्य सम्बन्धोपपत्तये तादवस्थ्याय वा गम्यमानार्थस्य वाक्येकदेशस्य स्वरूपेणोपादानं वाक्याध्याहारः ।
एवं सोपस्काराणि सूत्राणि सवाक्याध्याहाराणीत्यर्थः । किरतेर्लवने उपात् किरतेर्लवनविषयश्चेदों भवतीत्यर्थः । उपस्कीर्य मद्रकारा: लुनन्तीति। विक्षिप्य लुनन्तीत्यर्थः।