________________
४२६
कातन्त्रव्याकरणम्
लवन इति किम् ? उपकिरति धान्यम् । प्रतेश्च हिंसायाम् - प्रतिस्कीर्ण ते वृषल ! भूयात. उपस्कीर्णं ते वृषल ! भूयात्, उपस्कीर्णं ते वृषल ! भूयात् । हिंसानुबन्धी विक्षेपस्ने भूयादित्यर्थः । अपाच्चतुष्पादस्य हर्षेणापस्किरते वृषभः । हर्षेण विलिख्य क्षिपतीत्यर्थः । चतुष्पादस्येति किम् ? अपकिरति बालस्तुष्टः । पक्षिणि भक्षाय-अपस्किरते कुक्कुटो भक्षार्थी । विलिख्य क्षिपतीत्यर्थः । शुनि चाश्रयाय - अपस्किरते कुक्कुर: आश्रयार्थी, विलिख्य क्षिपतीत्यर्थः । प्रात् तुम्पतेर्गवि-तुन्प इत्यस्य गवि कर्तरि सुडित्यर्थः । प्रस्तुम्पति गौः, प्रस्तुम्पति वत्सो मातरम् । एतच्च वाशब्दन्याधिकृतस्य बहुलार्थत्वात् लोकतो वा सिद्धम् ।।८२०।
।। इत्याचार्यदुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायामाख्याते __ तृतीयाध्याये सप्तमः इडागमपादः समाप्तः ।।
[वि० प०]
सुट०। अधिकारस्येष्टविषयार्थत्वात् "इडागमोऽसार्वधातुकस्यादिः" (३।७।१) इत्यत आदिग्रहणमनुवर्तते इत्याह- कृञः सुडादिरिति । एवमिति समवायः समुदाय उच्यते । वक्तव्यं व्याख्येयम् । अत्रापि वाशब्दोऽनुवर्तते इति भावः। तत्र नः संस्कृतम्, तत्र न: परिष्कृतम्, तत्र न उपस्कृतम् । समुदितमित्यर्थः । भूषणेत्यादि। संस्कृतत्वेनानित्यत्वमेव साध्यते, नित्यस्य संस्कारायोगात् । वाक्याध्याहारं जल्पतीति सतोऽर्थस्य सम्बन्धोपबुद्ध्यर्थं तादवस्थ्यकथनार्थं वा गम्यमानार्थस्य वाक्यैकदेशस्य स्वरूपेणोपादानं वाक्याध्याहारः। एवं सोपस्काराणि सूत्राणि भवन्ति । सवाक्याध्याहाराणीत्यर्थः ।।८२० ।
।। इति श्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायामाख्याते
तृतीयाध्याये सप्तमः इडागमपादः समाप्तः ।।
[समीक्षा
'संस्कर्ता, परिष्कर्ता, उपस्कर्ता' आदि शब्दरूपों के सिद्ध्यर्थ सुडागम का विधान पाणिनि तथा शर्ववर्मा दोनों ही आचार्यों ने किया है। पाणिनि का सूत्र है - "सम्पर्युपेभ्य: करोती भूषणे" (अ० ६।१।१३७) । समवाय-हिंसा-प्रतियत्न-लवन आदि अर्थों में भी सुडागम के लिए पाणिनि ने सूत्र बनाए हैं- द्र० सूत्र - ६।१।१३५, १३६, १३८, १३९ आदि, इनकी पूर्ति कातन्त्रदुर्गवृत्ति आदि में की गई है। 'संस्कृत' शब्द भी भूषणार्थक सूडागम होकर निष्पन्न होता है । यही कारण है कि उसकी शब्दावली अन्य भाषाओं की भूषण होती है । फलत: वैदिक-लौकिक संस्कृत में किए गए अनुष्ठान-यज्ञयागादि सार्थक माने जाते हैं ।
[विशेष वचन] १. अडभ्यासव्यवधानेऽपि सत्वमिष्यते (दु० वृ०) । २. एवं समवायेऽपि वक्तव्यम् (दु० वृ०) ।