________________
४२४
कातन्त्रव्याकरणम्
[दु० टी०]
कृञो० । स्रादिनियमादिति प्राप्ते प्रतिषेधार्थम्, इह तु परोक्षानुवर्तते विशेषातिदिष्टत्वात्। नन्वनन्तरस्थलिति "थलि च" (३।४।५२) इति यद् वृत्तावुक्तम्, तन्मन्दधियां सुखार्थमेव। ससुटः पूर्वेण प्रतिषेधे प्राप्तेऽसुड् इत्युच्यते 'कृञोऽसः' इति सिद्धे न विद्यते सकारो यस्येति यद् असुटो ग्रहणं तत् स्पष्टार्थम् । स्यसिजाशीरित्यादि। इड् विभाषया भवति स च इच् प्रत्यय इवेत्यर्थः । 'अघानिषाताम्, घानिषीष्ट' इति इज्वद्भावविधानसामर्थ्याद् वधिरादेशो न भवति । वक्तव्यं व्याख्येयम् । केचिदिच्छन्ति केचिनेच्छन्तीत्युभयं प्रमाणीकृत्य परेण सूत्रं कृतमिदमित्यर्थः ।।८१९।
[वि० प०]
कृञः । स्रादिनियमादिटि प्राप्ते प्रतिषेध उच्यते । थलि तु थल्यृकारादिति। इह थलो विशेषातिदिष्टत्वात् परोक्षानुवर्तते, न त्वनन्तरस्थलीति। यच्च तद्ग्रहणेन गृहीतस्य थलो वृत्तौ विवरणं तत्तु सुखार्थमेव । स्यसिजाशीरित्यादि । इच्प्रत्ययवदिडागमो विभाषेत्यर्थः। वक्तव्यं व्याख्येयम् । इहापि वाशब्दानुवृत्त्या सिद्धमित्यर्थः । इच्कार्यं पुनर्वृद्धिरायिरादेशो हन्तेर्घः। उपधाया दीर्घ इत्यादिकमिह वेदितव्यम् । हन्तेस्तु पक्षे "हन्तेर्वधिराशिषि, अद्यतन्यां च" (३।४।८२,८३), इति वधिरादेशः । मानबन्धानामित्यादि । एतदपि वाशब्दादेव, अन्यथा "इचि वा" (३।४।६६) इति विकल्प एव स्यात् । अन्ये तु 'गामिष्यते' इत्यपि मन्यन्ते । पक्षे गमिष्यते इति।।८१९।
[समीक्षा]
'चकृव, चकृम, चकर्थ' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में अनिट् का विधान किया गया है । पाणिनि का सूत्र है - “कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि" (अ० ७।२।१३) । 'कृ' धातु के विषय में वार्त्तिककार ने कहा है कि सुडागमरहित ही 'कृ' धातु को इट् - निषेध होगा, ‘संचस्करिव-संचस्करिम' में सुडागम के कारण इडागम प्रवृत्त हो जाएगा- “कृञोऽसुट इति वक्तव्यम् (वा०), ससुटकस्येडागमो यथा स्यात् - संचस्करिव, संचस्करिम" (काशिका ७।२।१३) । यही कारण है कि इस विशेषता के कारण कातन्त्रकार ने 'कृ' धातु से इडागमनिषेधार्थ सूत्र ३।७।३६ से भिन्न प्रकृत सूत्र बनाया है।
[विशेष वचन १. मानुबन्धानां ह्रस्वो नित्यम् (दु० वृ०)। २. थलि चेति यद् वृत्तावुक्तं तन्मन्दधियां सुखार्थमेव (दु० टी०) । ३. यद् असुटो ग्रहणं तत् स्पष्टार्थम् (दु० टी०) । ४. केचिदिच्छन्ति, केचिन्नेच्छन्तीत्युभयं प्रमाणीकृत्य परेण सूत्रं कृतम् इदमित्यर्थः __ (दु० टी०)। ५. यद् वृत्तौ विवरणं तत्तु सुखार्थमेव (वि० प०) । ६. वक्तव्यं व्याख्येयम् । इहापि वाशब्दानुवृत्त्या सिद्धमित्यर्थः (वि० प०)। ७. अन्ये त 'गामिष्यते' इत्यपि मन्यन्ते (वि० प०)। .