________________
४२२
कातन्त्रव्याकरणम्
नित्यात्वतां स्वरान्तानां सृजिदृशोश्च वेट थलि ।
तृचि नित्यानिटः स्युश्चेद् वृव्येऽदां नित्यमिट थलि।। पपक्थ, पेचिथ । पपाथ, पपिथ । चिचेथ, चिचयिथ । सस्रष्ठ, ससर्जिथ । दद्रष्ठ, ददर्शिथ । तचि योऽकारवान् नित्यानिट् इति विशेषणात् । अदेघस्ल - जघसिथ । वेजो वयि: - उवयिथ । अन्जेर्विकल्पेट्त्वात् - आनञ्जिथ, आरिथ, ववरिथ, विव्ययिथ, आदिथ ।।८१८।
[दु० टी०]
थलि० । नित्यात्वतामित्यादि । नित्यश्चासावच्चेति कर्मधारयः । स विद्यते येषामिति वन्तुः । उपदेशकाले येऽकारवन्तः इत्यर्थः । ते च नित्यात्वन्तः स्वरान्ताश्च सृजिदृशौ च तृचि विषये नित्यानिटो यदि भवेयुरित्यर्थ: । वृव्येऽदामिति । वृञोऽतेरियर्तेश्च व्येजोऽदश्चेत्यर्थः। वृजत्योंनित्ये प्राप्ते प्रतिषेधे प्राप्तेऽदिव्येोर्विभाषायां प्राप्तायां नित्यमुच्यते। श्लोके पुनस्थलग्रहणं स्पष्टार्थम् । नैतद् वक्तव्यम्, वाग्रहणमनन्तरं पूर्वसूत्राद् व्यवस्थिविभाषात्वेनानुवर्तयितव्यम्, एवं सति थल्यूकारादिति वचनं नित्यार्थम् । तथा 'तुष्टोथ, दुद्रोथ, शुश्रोथ'। विभाषा न भवति । एकस्वराधिकाराच्च - जजागरिथ ।।८१८।
[वि० प०]
थल्य० । नित्यात्वतामित्यादि । नित्यश्चासावच्चेति नित्यात्, स विद्यते येषां ते नित्यात्वन्तः । उपदेशावस्थायामकारान्ता ये धातव इत्यर्थः । कीदृशानामेषां थलि वेडित्याह - 'तचि नित्यानिट: स्यश्च' इत्यादि । तुचि विषये नित्यात्वन्त: स्वरान्ताश्च सजिदृशो च यदि सर्वे नित्यमनिटो भवेयुरित्यर्थ: । वृव्येऽदामिति । 'वृञ् वरणे, ऋ प्रापणे, ऋ गतौ, व्ये संवरणे, अद प्सा भक्षणे' (४।८; १।२७५; २।७४; १।६१२; २।१) इत्येतेषामित्यर्थः । तदेतन्न वक्तव्यम् "इवन्तर्द्ध०" (३।७।३३) इत्यतो मण्डूकप्लुत्या वाऽधिकारात् सिद्धमिति । पपिथेति । "इटि च'' (३।४।२८) इत्याकारलोपः, 'तृचि' इत्यादौ "वा परोक्षायाम, वेञश्च वयिः" (३।४।८०, ८१) इति वचनाभ्यां परोक्षायामादेशविधानमिति कुतो घसेर्वयेश्च तृचि नित्यमकारयोगोऽनिटत्वं चेति वयेरभ्यासे "परोक्षायामभ्यासस्योभयेषाम" (३।४।४) इत्यनेन सम्प्रसारणम् , "तस्मानागमः" (३।३।१९) इत्यादिनाऽञ्जेर्नकारागमः, "न त्र्ययतेः परोक्षायाम्" (३।४।२१) इति प्रतिषेधवचनाद् व्यञः सन्ध्यक्षरान्तलक्षणमात्वं न भवति ।।८१८।
[समीक्षा)
'दधर्थ, जहर्थ, सस्मर्थ, दध्वर्थ' इत्यादि शब्दरूपों में इडागम का निषेध दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है - "ऋतो भारद्वाजस्य' (अ० ७।२।६३)। यहाँ आचार्य भारद्वाज के निश्चयानुसार निषेध सूचित किया गया है। अर्थात् ऋकारान्त धातुओं से ही इडागम का निषेध भारद्वाज के अनुसार जानना चाहिए, अत: 'ययिथ, पेचिथ' आदि में इडागम का निषेध नहीं होगा।
[विशेष वचन] १. नित्यात्वतामित्यादि। ......... उपदेशकाले येऽकारवन्त इत्यर्थ: (दु० टी०)।