________________
४२०
कातन्त्रव्याकरणम्
[दु० वृ०]
एभ्य एव परोक्षायामनिड् भवति। सृ-ससृव, ससृम। वृङ् , वृञ् वा-ववृवहे, ववृमहे। डु भृञ् ,भृञ् वा-बभृव, बभृम । ष्टुञ् - तुष्टुव, तुष्टुम। द्रु-दुद्रुव, दुद्रुम। श्रु-शुश्रुव, शुश्रुम। स्रु-सुस्रुव, सुस्रुम। एभ्य एवेति किम् ? पेचिव, शेकिव, ददिव, रन्धिव, नेशिवा रधादित्वाद् विभाषापि बाध्यते। परत्वाद् विकल्प इत्येके - ररन्धिव, रेध्वेति ।।८१७।
[दु० टी०]
सृवृ०। विशेषाभावात् सामान्यग्रहणम् इत्यादि । वृबृञिति। वृवृोः परोक्षायां प्राप्ते इट् प्रतिषिध्यते। सत्येकवाक्ये खल्वेवशब्देन सम्बन्धो वृग्रहणन्तु न पृथगुच्यते। लाघवायेति । स्रादीनां तु सिद्धे प्रतिषेधे युक्तो नियम इति पचादिभ्यः पुनरिट; प्रसङ्गो भवति। एवग्रहणं प्रकृतिनियमनिरासार्थम, अन्यथा स्रादीनां परोक्षायामेव नेड् भवति 'सर्ता, भर्ता' इतीट् स्यात् । 'पेचिव, शेकिव' इत्यत्र न स्यात् । अथ 'टुब स्तुतौ' (२०६५) इति नेटो गणकारो निर्देशं विधत्ते, अतो विपरीतनियमो न भवति इत्ययुक्तमेव। यस्मादेवग्रहणेनात्र व्याप्तिरवधार्यते, तेन कृत्प्रकरणलक्षणापि रधादिलक्षणविभाषा व्यावृत्यते इत्याह- ररन्धिवेति। परत्वाद् इति एकेऽन्ये । रेध्वेति। "अस्यैकव्यञ्जन०" (३।४।५१) इत्यादिना एत्वमभ्यासलोपश्च, नैतद् भाष्यसम्मतम् ।।८१७।
[वि० प०]
सवः। एवग्रहणान्न विपरीतनियमः – एभ्य एवेत्यादि। तेन "पचिवचि०" (३।७।१८) इत्यादिना प्रतिषिद्धोऽपीट पुन: परोक्षायां प्रतिप्रसूयते। "अस्यैकव्यञ्जन०" (३।४।५१) इत्यादिना एत्वम् अभ्यासलोपश्च। ररन्धिवेति। "रघियभोः स्वरे" (३।५।३२) इति नकारागमः ॥८१७।
[बि० टी०]
सृवृ० । नन्वत्र एवग्रहणेन किं प्रयोजनम्, यावता सिद्धादेव नियमो गम्यते, यदि परयोगेणेत्युच्यते तत् तेनैव निरस्तम्, तत्रैव वाग्रहणाभावात् ? सत्यम् । एवग्रहणं ज्ञापयति क्वचिदत्राप्यनिट् स्यात्, तेन 'न जगाम गमे_तोवृक्षादिति न पञ्चमी' इति सिद्धम् ।।८१७।
।।इति श्रीबिल्वेश्वरटीकायामाख्याते तृतीयाध्याये
सप्तमः इडागमादिपादः समाप्तः।।
[समीक्षा
'ससृम, शुश्रुम, तुष्टुव' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में इडागम का निषेध किया गया है। पाणिनीय सूत्र में ८ धातुओं का पाठ है – “कृसृभृवृस्तुद्रुसुश्रुवो लिटि" (अ० ७।२।१३).। कातन्त्रकार ने 'कृ' धातु से इडागमनिषेधार्थ पृथक् सूत्र बनाया है, अत: प्रकृत सूत्र में ७ ही धातुएँ पठित हैं।
[विशेष वचन] १. रधादित्वाद् विभाषाऽपि बाध्यते, परत्वाद् विकल्प इत्येके (दु० वृ०) ।