________________
तृतीये आख्याताध्याये सप्तमः इडागमादिपादः
४०७
प्रतिषेधसामार्थ्याद् हन्तेत्यत्र कृतार्थत्वात्। किञ्च पिपक्षतीत्यत्र वा कथं नेट्, पच् धातोः सनि द्विर्वचनेऽनेकस्वरत्वादिट् स्यादिति चेत्, तदयुक्तम् । एतद्विहितविशेषणत्वादिट् न भविष्यति। अत्रापि विहितविशेषणमिति चेत्, न काचित् क्षतिरिति। ____हन्धातोर्विहिते दीति ततो वध्यादेशः, ततः सिच्, तस्मादिट् स्यादेव वधभागाद् विहितत्वात् । न च वक्तव्यम्-हन्धातोरद्यतनी ततः सिच् ,ततो वधिरादेशः। “अद्यतन्यां च" (३। ४। ४३) इति वधिरादेशो न स्यात्, सिचा व्यवहितत्वात् । तर्हि कथन भविष्यति हन्धातोर्विहिताशिषि "हन्तेर्वधिराशिषि" (३।४।८२) इत्यनेन वध्यादेशे कृते इट् न स्यात्? सत्यम्, विषयसप्तमीत्वाद् वध्यादेशे कृते पश्चादाशीविभक्तिः स्यात्। यत्तु आशिषि परत: इत्युक्तं वृत्तौ तदुभयसप्तमीपक्षमाश्रित्योक्तं विषयत्वमपि बोद्धव्यम् । यद् वा विहितविशेषणं सर्वादेशं प्रति नास्त्येव "वसतिघसेः सात्" (३। ७।२९) इत्यत्र घसिग्रहणसामर्थ्यात्। अन्यथा घस्धातोर्मरविषय एव प्रयोगः। अर्थाद् अद: स्थानिकस्य घस्धातोर्ग्रहणं जिघत्सतीत्यत्र हन्धातोर्विहिते सनि घसिरादेश: विहितविशेषणत्वान्नानिड् भविष्यति, किं घसिग्रहणेन। तस्माद् घसिग्रहणेन ज्ञापयति - सर्वादेशं प्रति विहितविशेषणं नास्त्येव। तदा ‘जग्धवान्' इत्यत्र कथमिट न स्यात्? सत्यम्। अत्र केचिदाहुःघसिग्रहणेनाख्यातप्रकरणं नियम्यते, न कृत्प्रकरणम्, भिन्नकर्तृकत्वात्। गुरवस्त्वाहुःतत्र विषयसप्तमीत्वादादौ जग्ध्यादेशः पश्चात् क्तः। यथा 'आगमशासनमनित्यम्' (का० परि० २१) इति न्यायाद् इट् न भविष्यतीति सर्वं समञ्जसम् ।।८०५।
[समीक्षा] द्रष्टव्य समीक्षा सूत्र-सं० ७९५, ७९९। [विशेष वचन] १. यस्य स्थाने य आदेशास्ते तद्ग्रहणेन गृह्यन्ते (बि० टी०)। २. विहितविशेषणं सर्वादेशं प्रति नास्त्येव (बि० टी०)। ३. केचिदाहुः- घसिग्रहणेनाख्यातप्रकरणं नियम्यते, न कृत्प्रकरणम् । भिन्नकर्तृकत्वात्
(बि० टी०)। ४. गुरवस्त्वाहुः- तत्र विषय ---------- सर्वं समञ्जसम् (बि० टी०)। [रूपसिद्धि]
१. हन्ता । हन्+ ता । 'हन हिंसागत्योः' (२।४) धातु से श्वस्तनीसंज्ञक परस्मैपदप्र० पु०-ए० व० 'ता' प्रत्यय तथा प्रकृत सूत्र से इडागम का प्रतिषेध।
२. मन्ता । मन्+ ता । ‘मन ज्ञाने' (३।११३) धातु से श्वस्तनीसंज्ञक प्र० पु० - ए० व० 'ता' प्रत्यय तथा इडागम का प्रतिषेध।। ८०५।