________________
४०६
कातन्त्रव्याकरणम्
२. रोद्धा। रुध् + ता । 'रुधिर् आवरणे' (६।१) धातु से श्वसतनीसंज्ञक 'ता' प्रत्यय, अनिट, "नामिनश्चोपधाया लघोः” (३। ५। २) से 'रुध्' धातु की उपधा उकार को गुण, तकार को धकार तथा धकार को दकार।
३-११. क्रोद्धा। क्रुध + ता। क्षोद्धा। क्षुध् + ता। बन्दा। बन्ध् + ता। शोद्धा। शुध् + ता। सेया। सिध् + ता। बोद्धा। बुध् + ता। योद्धा। युध् + ता। व्यधा। व्यध् + ता। साधा। साध् + ता।। ८०४।
८०५. हनिमन्यते त् [३।७।२३] [सूत्रार्थ
'हन्-मन्' इन दो नकारान्त धातुओं से उत्तर में असार्वधातुकप्रत्ययनिमित्तक इडागम का प्रतिषेध होता है।। ८०५।
[दु० वृ०]
आभ्यामनिड् भवति। हन् - हन्ता। मन ज्ञाने - मन्ता। कथम् अवधीत् ? नायं नान्त इति।। ८०५।
[दु० टी०] हनि०। मन्यतेरिति यना निर्देशान्मनु बोधने इतीट-मनिता।। ८०५। [वि० प०] हनि०। कथमित्यादि। "अद्यतन्यां च" (३।४। ८३) इति वधिरादेशः।। ८०५। [बि० टी०]
हनि०। समाहारत्वानपुंसकमिति नुर्न भवति, सूत्रत्वादिति। एवं पूर्वयोगेऽपि। मन्यतेरिति यना निर्देशान्न ‘मनु बोधने' इति। तस्माद् इड् भवत्येव मनिता। कथम् अवधीत्, नायं नान्त इति। ननु यथा नान्तत्वाभावादिट् स्यात् तथा 'अत्ता, बोद्धा, योक्ता' इत्यत्रापि "अघोषे प्रथमः" (२। ३। ६१), "चवर्गस्य किरसवणे" (३। ६। ५५) इत्यादिना प्रथमादौ कृते दान्तत्वाभावादिट् स्याद् 'आगमादेशयोरागमविधिर्बलवान्' (का० परि० ४०) इति न्यायाद् आदौ इटि प्राप्ते प्रतिषेधः, तत: प्रथमे सति दान्तत्वाभावाद् इट् न स्यात्, प्रतिषेधबलात्, तर्हि तत्रापि 'आगमादेशयोरागमविधिर्बलवान्' (का० परि० ४०) इति प्रतिषेधः कथं न स्यादिति चेत्, न देश्यम्। 'आगमात् सर्वादेशविधिर्बलवान्' (का० परि० ४१) इति न्यायात् पूर्ववद् वधिरादेशः। न च वक्तव्यम् - वध्यादेशे कृते निषेध: स्यात्, प्रतिषेधसामर्थ्याद् हन्तेत्यत्र कृतार्थत्वात् । न च वक्तव्यम् - 'यस्य स्थाने य आदेशास्ते तद्ग्रहणेन गृह्यन्ते' (का० परि० ९१) इति न्यायाद् हनिरेवायं स्थानिवद्भावो ह्यवर्णविधाविति न्यायानान्तत्वं नावसीयते इति तर्हि 'आहत' इत्यत्र कथमिट् न स्यात् । आङ्पूर्वाद् हन्धातोरद्यतन्यामात्मनेपदस्य प्रथमैकवचनम्, ततः सिच्, आगमादेशयोरित्यादिना प्रतिषेधः कथन स्याद् इति चेत्, न देश्यम् ‘आगमात् सर्वादेशविधिर्बलवान्' इति न्यायात् पूर्वं वध्यादेशे कृते पश्चात्रलोपे कृते नान्तत्वाभावात् कथन्न इट् । न च वक्तव्यम् -