________________
४००
कातन्त्रव्याकरणम्
[दु० वृ०]
शके: कान्तात् परमसार्वधातुकमनिड् भवति । शक्लृ, शक - शक्ता,
शक्ष्यति।।७९९ ।
[दु० टी०]
शके: । 'शक विभाषितो मर्षणे' इत्यस्य दैवादिकस्य न ग्रहणमिति मन्यते, तदसम्मतम् इहाविशेषात् । तथा च 'शकिस्तु कान्तेष्वनिडेक इष्यते इति नहि शकिः कान्तत्वं व्यभिचरति, कान्ताच्छकेरेवेति मन्दमतिबोधार्थं काद्ग्रहणम् । एवं सर्वत्र । एकस्वराद् विहितमिति किम् ? शाशकिता ||७९९ ।
[वि० प० ]
शके: । 'शक्लृ, शक' (४/१५; ३।११८) इति । अन्यस्तु 'शक मृष क्षमायाम्' (३।११८) इति दैवादिकस्य ग्रहणं न मन्यते । अतस्तस्य शकितेति मतम् । तदयुक्तम्, इह द्वयोरपि ग्रहणम् अविशेषादपरोऽप्यविशेषमाह- शकिस्तु कान्तोऽनिडेवेष्यते इति । शके: कान्तत्वव्यभिचारो नास्ति, यत् कादिति विशेषणं तत् सुखार्थम् । एवमन्यत्रापि ॥ ७९९ । [समीक्षा]
जैसे स्वरान्त धातुओं में इडागम के प्रतिषेधार्थ पाणिनि का एक ही सूत्र है “एकाच उपदेशेऽनुदात्तात् " (अ० ७।२।१०), उसी प्रकार व्यञ्जनान्त धातुओं में भी इडागम का निषेध सामान्यत: इसी सूत्र से होता है। इसके स्पष्टीकरण के लिए अनिट्कारिकाएँ पढ़ी गई हैं। कातन्त्रकार ने अनिट्कारिकोक्त धातुओं के लिए प्रायः पृथक् सूत्र बनाए हैं। प्रकृत सूत्र के भी विषय में यही जानना चाहिए।
[विशेष वचन ]
-
१. दैवादिकस्य न ग्रहणमिति मन्यते, तदसम्मतमिहाविशेषात् (दु० टी०; वि० प० )। २. नहि शकिः कान्तत्वं व्यभिचरति, कान्ताच्छकेरेवेति मन्दमतिबोधार्थं कादग्रहणम् (दु० टी० ) । [रूपसिद्धि]
१. शक्ता। शक्+ता। 'शक क्षमायाम्, शक्ल शक्तौ' ( ३।११८; ४ । १५) धातु से श्वस्तनीसंज्ञक परस्मैपद-प्र० पु० ए० व० 'ता' प्रत्यय तथा प्रकृत सूत्र द्वारा इडागम का प्रतिषेध।
२. शक्ष्यति। शक् + स्यति । 'शक क्षमायाम्, शक्ल शक्तौ (३।११८; ४/१५) धातु से भविष्यन्तीसंज्ञक ‘स्यति' प्रत्यय, इडागम का प्रतिषेध, “निमित्तात् प्रत्ययविकारागमस्थः” (३।८।२६) से सकार को षकारादेश तथा 'क् - ब्' संयोग से 'क्ष' ।। ७९९ । पचिवचिसिचिरिचिमुचेश्चात् [ ३।७।१८ ]
[ सूत्रार्थ]
चकारान्त 'पच्, वच्, सिच्, रिच् मुच्' इन पाँच धातुओं से उत्तर में असार्वधातुकनिमित्तक इडागम नहीं होता है ।। ८०० |