________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः ५४१. ग्रहिज्यावयिव्यधिवष्टिव्यचिपच्छिवश्चिभ्रस्जीनामगुणे [३। ४। २]
[सूत्रार्थ]
'ग्रह – ज्या - वय - व्यध् - वश् – व्यच् – प्रच्छ् – व्रश्च् – भ्रस्ज्' धातुओं का सम्प्रसारण होता है, अगुण प्रत्यय के परवर्ती होने पर।। ५४१ ।
[दु० वृ०]
ग्रह्यादीनामन्तस्थायाः सपरस्वराया: सम्प्रसारणं भवति अगुणे प्रत्यये परे। गृह्यते, गृह्णाति। जीयते, जिनाति। ऊयतुः, ऊयुः। “न वाश्व्योरगुणे च" (३। ४। ६) इति प्रतिषेधबाधनार्थ वेबो वयिरुच्यते। विध्यते-विध्यति। उष्टः, उशन्ति। विच्यते, विचतिकुटादित्वादगुणत्वम्। कथम् उरुव्यचा: असुन् ? औणादिकत्वात्। पृच्छ्यते- पृच्छति। कथं प्रश्न: ? प्रश्नाख्यानयोरिति वचनात्। वृश्च्यते, वृश्चति। भृज्ज्यते, भृज्जति। अगुण इति किम् ? ग्रहीता।। ५४१ ।।
[दु० टी०]
ग्रहि० । गृह्यते इत्यादि। ‘ग्रह उपादाने, ज्या वयोहानौ' (८।१४, २३)। नाविकरणे संप्रसारणस्य तद् दीर्घमन्त्यमिति कृतेऽपि प्वादित्वाद् हृस्वो भवति, वेआदेशस्य वयेरिह ग्रहणम्, तत्रकारनिर्देशप्रयत्नात्, न तु 'अय वय' (१। ४०६) इत्यस्य यजादित्वाद् वेत्र: परोक्षायां प्रतिषेधं वक्ष्यति। स वयेर्मा भूदित्याह- न वाश्व्योरित्यादि। 'व्यध ताडने, वश कान्तौ' (३ । २५,२। ३)। तिप्– निर्देशोऽयं सुखार्थः। अनन्यार्थ इति एके। 'व्यच व्याजीकरणे' (५। ८६)। कथमित्यादि। यदि व्यचे: कुटादित्वं “सर्वधातुभ्योऽसुन्" (कात० उ० ५। ३४), तस्मिन्नपि सम्प्रसारणं प्रसज्येत। युक्तिमाह- औणादिकत्वादिति। 'औणादिका अव्युत्पन्ना व्युत्पन्नाश्च' (पुरु० प० वृ० ७०) इति, इह व्युत्पन्ना एवाद्रियन्ते, तेन व्यचेः कुटादित्वमनसुनीति न वक्तव्यं भवति। 'प्रच्छ जीप्सायाम्, व्रश्चू छेदने, भ्रस्ज पाके' (५। ४९, १९, ४)।। ५४१ ।
[वि० प०]
ग्रहिज्या०। जीयते इति। 'ज्या वयोहानौ' (८। २३) इति संप्रसारणे कृते "नाम्यन्तानाम्०" (३ । ५।१७) इत्यादिना यनि दीर्घ:। जिनातीति। "तद्दीर्घमन्त्यम्" (४।१। ५२) इति कृतस्य दीर्घस्य पुन: प्वादित्वाद् ह्रस्व:। 'अन्येव विकरणे गुणः' इति नियमाद् नाविकरणस्यागुणत्वम्। ऊयतुः, ऊयुरिति। 'वेञ् तन्तुसन्ताने' (१ । ६११), "वेत्रश्च वयिः' (३।४। ८१) इति वयिरादेशः, परोक्षायां कृतसम्प्रसारणस्य द्विवचनम्, समानलक्षणो दीर्घः । वेत्रादेश एव वयिरिह गृह्यते, तत्र वयिरितीकारस्यानन्यार्थत्वात्, न तु 'अय वय' (१। ४०६) इत्यस्य। यद्येवम् अनर्थकं वयिग्रहणम्, यजादिषु वेञ् पठ्यते, ततः कृतादेशस्यापि स्थानिवद्भावात् तेनैव भविष्यति इत्याह- न वाश्व्योरित्यादि। "न वाश्व्योरगुणे च" (३। ४।६) इत्यस्य प्रतिषेधस्य बाधनार्थमित्यर्थः, तेन कृतादेशस्यैव यजादिषु पठितस्य वेबः परोक्षायां प्रतिषेधे न कृतादेशस्येति सिद्धम्। विध्यतीति। 'व्यध ताडने' (३। २५) दिवादित्वाद् यन्, पूर्ववदगुणत्वम्। उष्ट इति। 'वश कान्तौ'