________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः ३७१ ७८०. तृतीयादेर्घढधभान्तस्य धातोरादिचतुर्थत्वं सध्वोः [३।६।१००]
[सूत्रार्थ
'स्' तथा 'ध्' के परे रहते 'घ्-द-ध्-भ'- अन्त वाली धातुओं के आदि में स्थित तृतीय वर्ण के स्थान में उसी वर्ण का चतुर्थ वर्ण आदेश होता है।।७८०।
[दु० वृ०]
धातोरवयवस्य तृतीयादेघढधभान्तस्यादेश्चतुर्थत्वं भवति आन्तरतम्यात् सकारे ध्वे च परतः। दुधुक्षति, अधोक्ष्यत् , अधुग्ध्वम् । अघुक्षत्, अघूढ्वम् । बुभुत्सते, अभुद्धवम् । धीप्सति। भोत्स्यते। निघोक्ष्यते इत्याद्यन्तवद्भावात् । सिध्वोरिति किम् ? दिदम्भिषति, दुग्धः, दुग्धवान् । पुनर्धातुग्रहणमुत्तरार्थमिह सुखार्थं च।।७८०।
[दु० टी०]
तृतीयादेः। पुनरित्यादि। धातोरित्यवयवावयविसम्बन्धे षष्ठी, तृतीयादेरिति घढधभान्तस्येति चावयवस्य विशेषणमिति सुखार्थम् । सेरिकार उच्चारणार्थः ‘घढधभान्त०' इति वचनात् । सध्वोरघोषेष्वशिटां प्रथमो धुटां तृतीयश्च नित्योऽप्यादिचतुर्थत्वमपेक्षते वचनाद् भूतपूर्वगत्या वा।।७८०।
[वि० प०]
तृतीयादेः। 'दुह प्रपूरणे, गुहू संवरणे' (२।६१; १।५९५) अनयोरद्यतन्याध्वम्। इह सन् विकल्पितपक्षे सिजपि नास्तीति "दुहदिहलिहगुहामात्मने" तवर्ग वा सनेवेत्युक्तमेव। दहेर्दाहेर्घत्वं गुहेश्च हो ढः, तवर्गयोगे धस्य ढत्वम्, "ढे ढलोपो दीर्घश्चोपधायाः" (३।८६)। अभुद्ध्वमिति। 'बुध अवगमने' (३।१११), "घुटश्च धुटि" (३।६।५१) इति सिचो लोपः। धीप्सतीति। "दन्भेरीच्च" (३।३।४१) इति स्वरस्येकारोऽभ्यासलोपश्च। चकारादनामिनोऽपि क्वचिदित्यनुषङ्गलोपः। ननु धातोरित्यवयवावयविसम्बन्धे षष्ठी, तृतीयादेर्घढधभान्तस्येति चावयवस्य विशेषणम्, तथा चैवमेव सूत्रार्थे आविर्भावितम् । अतोऽन्तरङ्गत्वाद् द्विवचने कृतेऽडागमे च सति अवयवावयविसम्बन्धस्य विद्यमानत्वात् बुभुत्सति, अभुद्धवम्' इत्यादावेव स्यात् । धीप्सतीत्यादौ तु कथमित्याह - आद्यन्तवद्भावादिति। दिदम्भिषतीति। "इवन्तर्द्ध०" (३।७।३३) इत्यादिना पक्षे इट, प्रकरणान्महायात्वधिकाराच्च धातुर्लब्ध एवेत्याहपुनरित्यादि।।७८०।
[समीक्षा]
'गोधुक्, भोत्स्यन्ते, धीप्सति, दुधुक्षति' इत्यादि शब्दरूपों के सिद्ध्यर्थ धात्वादिस्थ वर्गीय तृतीय वर्ण के स्थान में चतुर्थ वर्ण का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है - "एकाचो बशो भष् झषन्तस्य स्ध्वोः” (अ० ८।२।३७)। पाणिनीय 'बश्' प्रत्याहार में “ब्-ग-ड्-द' वर्ण तथा 'भष् ' प्रत्याहार में 'भ-घ्-ढ-ध्' वर्ण सम्मिलित हैं । इन प्रत्याहारों के ज्ञान में होने वाले गौरव की अपेक्षा कातन्त्रीय 'तृतीयचतुर्थ' शब्दों का प्रयोग लाघवाध्यायक ही कहा जाएगा ।