________________
तृतीये आख्याताध्याये षष्ठोऽनुष लोपदेपदः
[दु० टी० ]
क्रमः । हेर्लोपादिति । प्रत्ययलोपे प्रत्ययलक्षणमिति कथमिह परस्मैपदेनानिति विशिष्यते। परस्मैपदे योऽन्विकरण इति ? सत्यम् । परस्मैपदेन विना दीर्घलक्षणं न प्रवर्तते इति भवति प्रत्ययलोपलक्षणम्। अथवा परस्मैपद इति निमित्तत्वेन विशेषणं न परत्वेन परस्मैपदे निमित्ते योऽन्विकरण इति । परस्मैपदस्येति षष्ठी वा, परशब्दस्याप्रयुक्तत्वात् ।। ७४८ [समीक्षा]
'क्रामति, क्रामतः, क्रामन्ति' इत्यादि शब्दरूपों के सिद्ध्यर्थ क्रमधातुगत अकार को दीर्घ आदेश दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है- "क्रमः परस्मैपदेषु” (अ० ७। ३। ७६)।
३४३
[रूपसिद्धि]
१. क्रामति । क्रम् + अन् + ति । 'क्रमु पादविक्षेपे' (१ । १५७) धातु से वर्तमानासंज्ञक 'ति' प्रत्यय, 'अन्' विकरण तथा दीर्घ आदेश ।। ७४८ ।
७४९. गमिष्यमां छः [३ । ६ । ६९]
[ सूत्रार्थ]
'अन्' विकरण के परे रहते 'गम् - इष् - यम्' धातुओं के अन्त को 'छ' आदेश होता है।। ७४९ ।
[दु० वृ०]
सामान्यमनुवर्तते। एषामन्तस्य छो भवति अनि परे । गच्छति, संगच्छते, इच्छति, यच्छति, आयच्छते।। ७४९ । [दु० टी० ]
गमि०। इच्छतीति। ‘इषु इच्छायाम्' (५। ७०) तौदादिकः । अनीति किम् ? 'इष गतौ' (३। १६) इष्यति। 'इष आभीक्ष्ण्ये' (८ । ४५) क्रयादिकः इष्णाति।। ७४९।
"
—
[वि० प० ]
गमि०। सामान्यमनुवर्तते इति । 'विशेषातिदिष्टः प्रकृतं न बाधते' (का० परि० ३९) इत्यर्थः। तेनात्मनेपदेऽप्यनि संगच्छते, आयच्छते इति । "समो गमृच्छि०" (३ । २।४२ – २० ) इत्यादिना ‘आङो यमहनौ” (३ । २ । ४२
२२) इत्यादिना रुचादित्वा
दात्मनेपदम्।। ७४९। [समीक्षा]
'इच्छति, गच्छति, यच्छति' आदि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में छकारादेश किया गया है । पाणिनि का सूत्र है – “इषुगमियमां छः " (अ० ७ । ३ । ७७) । तीन धातुओं के पाठक्रम को छोड़कर समानता ही उभयत्र देखी जाती है।
-