________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
३३५
अपरस्त्वाह-अत्र संस्थानव्यङ्ग्या जातिर्गृह्यते, न तु आचारार्थमिति । अत एव न निषेध: । (तन्न) टीकाकारेणापि 'लिङ्गानां च न सर्वभाक्' इत्यस्योदाहरणं ब्राह्मणीति वक्ष्यते। तत्राह उमापतिसेन: - 'जातिस्तु पुंवत् क्वचिदायियोगे' इति । पण्डितस्त्वाहयेन तत्र संस्थानव्यङ्ग्या जातिर्गृह्यते तन्मतमाश्रित्योक्तमुदाहरणम्, एतेनाक्षेपो दत्तः कुलचन्द्रेण । नास्माकं मतमित्यर्थः। तत्राधिकारबलादमुख्यमपीति।
ननु तत्र नपुंसकादिति किं कल्याण्यै इति प्रत्युदाहरणं दत्तं युज्यते। न च वक्तव्यं नपुंसकाधिकारमन्तरेणापि नपुंसकत्वं प्राप्तं स्त्रीति लोकतः सिद्धत्वात् ? सत्यम् । यत् स्त्रीति लोकतः सिद्धमिदमुक्तं तद् विभक्तिविषयादन्यत्रैव बोध्यम् । नाप्तिभावत्वं श्वशुरत्वमिति । ननु भवनं भाव इति भावशब्देन भाव उक्तः । भावत्वशब्देन भावस्य भाव उच्यते कथं नाप्तिभावत्वं श्वशुरत्वमिति सामानाधिकरण्यम् । तत्राहोमापतिसेनः भाव इति कर्मणि घञ् (आप्तौ) पूजायाम् (भूयते) व्याप्यते य: स आप्तिभाव:, भावः आप्तिभावत्वं श्वशुरत्वमिति । ततः सामानाधिकरण्यमस्त्येव । भाषितः पुमान् यस्मिन्नर्थे इति समानायामाकृताविति परः ।
तस्य
अस्यार्थः- आङ्पूर्वकृधातुर्जनने वर्तते । आक्रियेते जन्येते बुद्धिशब्दाविति आकृति: प्रवृत्तिनिमित्तम्, तेन ‘द्रोणीयते' इत्यत्र न भवति, भिन्नप्रवृत्तिनिमित्तत्वात्, भवन्मते कथम् ? सत्यम्, भाषितः पुमान् यस्मिन्नर्थे इति समासादेकप्रवृत्तिनिमित्तत्वम् । एतदुक्तं भवति भाषित उक्तः पुमान् यस्मिन्नर्थे अर्थाच्छब्देन । शब्दस्यार्थे प्रवृत्तिनिमित्ते वर्तमानः स्त्रीलिङ्गशब्दः पुंवद् भवति । अथ समानार्थप्रतिपादितं सममिति परे । तर्हि ‘तटीयते’ इत्यत्र कथं न पुंवद्भावः । 'तटं त्रिषु' इति अमरवचनादेकप्रवृत्तिनिमित्ते पुंवद् भाषितत्वात्? सत्यम्। पण्डितः- भाषितः इत्यतीते क्तप्रत्ययः, पुरा पुंस्त्वमुक्तम्, न पुंवद्भावसमये पुंस्त्वं विद्यते इति । पुंस्त्रीभेदेनास्याप्ययमाशयः योऽपत्ययोर्जाया— पत्योरुद्वाहः। श्वशुरत्वमिति सामान्यम्, तत्तु जामातरमपेक्ष्य जामातुः पितरि कन्यायाः श्वशुरत्वं विद्यते इति । एवं कन्यामपेक्ष्य कन्यायाः पितरि जामातुः श्वशुरत्वं विद्यते । न च वाच्यम्, एकस्य श्वशुरत्वमपेक्ष्य पुंवद्भावः सामान्यपुंवद्विध्युक्तो न भवितुं पार्यते एव। उक्तन्यायाद् विशेषविवक्षायां तु आयिरेव न प्राप्नोति सापेक्षत्वादिति मनसिकृत्याहकथं गर्भीयते इति । ननु शालिरवयवभूतेनेति कथमवयवत्वम् अनारम्भकत्वादिति ? सत्यम्। यस्मिन् समये गर्भस्तस्मिन्नेव समये आरम्भको भवति, तर्हि शालिपक्षे कथमवयवभूतो गर्भो भवति । स्त्रीपक्षेऽनवयवो वा गर्भः कथम् ? सत्यम् । अवयवनाशे समुदायस्य नाशो भवति यथा घटावयवनाशे घटनाशो भवति । अस्यावयवो गर्भस्तन्नाशे समुदायस्य नाश इत्यवयवभूतो भवत्येव । तथा चामरः 'ओषध्यः फलपाकान्ताः ' इति स्त्रियां गर्भे प्रसूतेऽपि न नाश:, अत एवानवयवभूत इत्युक्तम् । अन्तर्वर्त्तित्वमात्रं विवक्षितमिति अन्तवर्त्तित्वं गर्भत्वं विवक्षितं न त्ववयवत्वम् । ननु अवयवत्वं कथन्न विवक्षितमिति चेद् उच्यते गर्भोऽस्यास्तीति 'गर्मी' इति सामान्यमवलम्ब्य इन् प्रत्ययः । विशेषापेक्षया इन् प्रत्ययो न भवति, सापेक्षत्वात् । अत एवान्तर्वर्त्तित्वं विवक्षितमिति न विशेष इत्यर्थ: ।। ७४१ ।
T
-
-
—
-