________________
३३४
कातन्त्रव्याकरणम् नपुंसकस्य पुंवद्भावो न भवति। यदि पुनरिह पुंवद्भाव: स्यात् तदा नपुंसकलक्षणह्रस्वनिवृत्तौ अतिनाव्यते इति स्यात्। भाषित इत्यादि। द्रोणशब्दः पुंसि चतुराढकपरिमाणे वर्तते, स्त्रियां तु जलक्षेपण इति नार्थो भाषितपुंस्क इत्यर्थः। कथमित्यादि। शुपूर्वाद् ‘अशू व्याप्तौ' (४।२२) इत्यस्मादाप्तिभावेऽर्थे उरप्रत्यये "श्वशुरः' इत्यौणादिको निपातः । तस्य च स्त्रियां श्वश्रूरिति ऊङन्तो नदादौ निपातो दृश्यते, तत आप्तिभावलक्षणस्य भाषितपुंस्कार्थस्य विद्यमानत्वान् समानायामाकृतौ पुंवद्भावे सति 'श्वशुरायते' इति भवितव्यम् इति पूर्वपक्षार्थः। ___ परिहारमाह - नाप्तिभावत्वमिति। न खलु शावशेराप्ताविति वचनमत्रादृतम्, तविपर्ययेऽपि श्वशुरशब्दस्य प्रवृत्तेः, अतो नाप्तिभावत्वं प्रवृत्तिनिमित्तं भाषितपुंस्कमित्यर्थः । ननु विशिष्टमपि श्वशुरत्वं भवत् तदपत्योद्वहनसम्बन्धकृतमेव भवितुमर्हति, तच्च न केवलं पुंसि स्थितं किन्तर्हि स्त्रिणमपि। यदाह तत्रभवान् दुर्गसिंह: – एवं श्वशुर इति तदपत्योद्वहनसम्बन्धनिबन्धनो व्यपदेश: श्वश्र्वामपि: स्थित एवेति। (अधुना तु एवं दुर्गोंक्ति: कुत्रापि न दृश्यते)। तथा च सत्येकमेव प्रवृत्तिनिमित्तमिति पंवद्भावः स्यादेव? सत्यम्। तथाप्यपत्योद्वहनसम्बन्धस्य पुंस्त्रीभेदेन विवक्षितत्वान्नैकं प्रवृत्तिनिमित्तमिति न दोषः। कथं गर्भीयते इति। गर्भोऽस्यास्तीति गर्भी शालिः, अवयवभूतेन गर्भेण सह सम्बन्धात्। गर्भिणी स्त्रीति। अनवयवभूतेन गर्भग सह सम्बन्धात्। अतोऽवयवानवयवभेदात् पृस्त्रियोर्गर्भिशब्दो वर्तमानो नैकं प्रवृत्तिनिमित्तमुपादाय प्रवर्तते, ततो भिन्नाकृतित्वान्न पुंवद्भावं प्राप्नोतीति, नैतदेवम्। इहावयवानवयवकृतं भेदमुत्सृज्यान्तवर्त्तित्वमात्रमेकं प्रवृत्तिनिमित्तं विवक्षितमित्याह अन्तर्वर्त्तित्वमात्रविवक्षयेति।। ७४१ ।
[बि० टी०]
भाषित० । भाषित: पुमान् यस्मिन् पुंशब्दादेकार्थान्नित्यं कप्रत्ययः, तर्हि सुपुंश्चरतीत्यत्र कथं न कप्रत्ययः, न च तत्र विकल्पोऽस्ति नित्यग्रहणबलादिति न देश्यम्। एकार्थाद् एकाधिकरणादित्यर्थो न गृह्यते, किन्तु पुंशब्दात् किंविशिष्टात्, एकार्थात्। एकोऽर्थो यस्य तस्मात्, पुंशब्दो यदि द्वित्वे बहुत्वे वा वर्तते तदा कप्रत्ययो न भवतीत्यर्थः। अत एव शोभना: पुमांसो यस्मिन् इति बहुत्वे दर्शितम्। ननु भाषितपुंस्कत्यत्र संयोगान्तलोप: कथन्न स्यात्, पुंसोऽशिट्यघोषविषये संयोगान्तलोपस्यानित्यत्वात्। तर्हि पुमांश्चरतीत्यत्र पुंसोऽशिट्यघोषविषये संयोगान्तलोपस्यानित्यत्वात् कथं संयोगान्तलोपः। न च वाच्यं पुमानिति साधिते पश्चाच्चरतिशब्देन सार्ध योगः, तदा सुपुंश्चरतोत्यादिषु दूषणं स्यात्? सत्यम्। तत्रैकार्थीभावे संयोगान्तलोपस्य नित्यत्वमिति बोद्धव्यम्।
ननु ‘ब्राह्मणायते' इत्यत्र कथं पुंवद्भाव:, यावता कार्यातिदेशोऽयं शास्त्रातिदेशोऽयं वोभयो: पक्षयोर्यच्छास्त्रं तत् कार्य वाऽतिदिश्यते। अत्र जातेरिति जातौ निषेधात् कथं पुंवद्भावः। तत्र केचिद् आचक्षते। अत्र जातिमाश्रित्य ईप्रत्ययो न भवति, किन्तु पुंयोगे ईप्रत्ययः - ब्राह्मणस्य भार्या ब्राह्मणी, यथा आचार्यानी तु पुंयोग इति। तदसत्। अत्र जातेरन्यब्राह्मणीशब्दो विद्यते, अन्यथा ब्राह्मणेन वृषलीविवाहे सति तस्यामपि ब्राह्मणशब्दो वर्तते, किञ्च चरणत्वाज्जातिरेव। यथा कठायते इति कठाध्ययनयोगात् कठ इति।