________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपाद:
३३३ ३. क्रोष्टा। क्रुश् + ता। 'क्रुश् आह्वाने' (१ । ५६४) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।।
४. क्रोक्ष्यति। क्रुश् + स्यति। 'क्रुश् आह्वाने' (१ । ५६४) धातु से भविष्यन्तीसंज्ञक 'स्यति' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
५. अचोक्रोट्। अट् + क्रुश् + चेक्रीयितलुक् + दि। 'क्रुश् आह्वाने' (१ । ५६४) धातु से चेक्रीयितसंज्ञक 'य' प्रत्यय, द्विर्वचनादि, 'य' प्रत्यय का लुक्, धातुसंज्ञा, अडागम, श् को ष्, ष् को ट् तथा 'दि' का लोप।। ७४० ।
७४१. भाषितपुंस्कं पुंवदायौ [३।६। ६१] [सूत्रार्थ 'आयि' प्रत्यय के परे रहते भाषितपुंस्क शब्द को पुंवद्भाव होता है।। ७४१ । [दु० वृ०]
भाषितपंस्कं पंवद् भवति आयौ प्रत्यये परे। ब्राह्मणीवाचरति ब्राह्मणायते। श्वेनी-श्वेतायते। एनी-एतायते। हरिणी-हरितायते। लोहिनी-लोहितायते। श्वेतैतहरितलोहितेभ्यस्तो न इति नदादौ। च्व्यर्थे तु न भवति गौणत्वात्। अलोहिनी लोहिनी भवति लोहिनीयते इत्यन्ये। पुमानिव पुंवत् स्त्रीति लोकत: सिद्धम्। तत्राधिकारबलादमुख्यमपि नपुंसकं पुंवदिति। तेन अतिनूयते। भाषित: पुमान् यस्मिन्नर्थे इति समासात् – द्रोणीयते। कथं श्वश्रूयते ? श्वशुरस्य श्वश्रूरूडन्तो निपातनान्नाप्तिभाषत्वं श्वशुरत्वम् अपि तु विशिष्टमेव रूढम्। कथं गर्भीयते शालि:, अन्तर्वतित्वमात्रविवक्षयेति।। ७४१ ।
[दु० टी०]
भाषितः । येषां डाउलोहितादिभ्यश्व्यर्थे आयिरिति वक्तव्यम्, ते परिहारमाहुश्व्यर्थे त्वित्यादि। “लिङ्गग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (का० परि० १७) इति लोहिनीशब्दादप्यायिरिति भावः। स्वोत्प्रेक्षैषा, न च भाष्यादौ निदर्शनमस्ति तस्यानित्यत्वाभ्युपगमात्। इह अन्ये एके इति। पुमानिवेत्यादि। ‘भाषितपुंस्कं पुंवद् वा' इत्यत्र सूत्रे नपुंसकाधिकरणादित्यर्थः। कथमित्यादि। नात्र शावशेराप्तावित्युरप्रत्ययो व्युत्पाद्यते।। ७४१ ।
[वि. प०]
भाषितः । व्यर्थ इत्यादि। येषां मते 'डाज्लोहितादिभ्यश्व्यर्थे इति सूत्रमस्ति तेषां “लिङ्गग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (का० परि० १७) इति न्यायात् लोहिनीशब्दादप्यायौ कृते न भवतीत्यर्थः, गौणत्वात्। गौणत्वं पुनरलोहिनीप्रकृतित्वाल्लोहिनीशब्दस्य वेदितव्यम्। इह पुनः पुंवद्भाव एव, भाष्येऽपि नैतद् दर्शितम्। अनित्यत्वाभ्युपगमाद् गौणमुख्यपरिभाषाया इत्याह – अन्य इति। अमुख्यमपीति। तत् पुनर्लोकप्रसिद्धरभावात् तेनेति। नावमतिक्रान्तं कुलमिति अतिनु, तदिवाचरतीत्यायौ कृते