________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
भवति। बेभिदिता। दृशदमिच्छति आचरति वा दृशदिता । भिषज्यधातुः कण्डूयादौ भिषजिता। यिन्नाय्योर्नेच्छन्त्येके, तेनोभयप्रमाणत्वाद् विकल्प इति । वक्ष्यमाणलोपोक्ते— र्द्वियकारपाठाद् वा मव्यादीनामदोष: । मव्यिता, सूक्ष्यिता, ईर्ष्णिता, शुच्यिता । व्यञ्जनादिष्विति किम् ? लोलूयिता। इनो लोपेऽयादेशे च - मोमूत्रिता, शाशयिता । धातोर्यस्येति किम् ? पच्यते। अननीति किम् ? पापच्यते।। ७२८ ।
३१५
[दु० टी० ]
यस्या०। बेभिदितेति। नहि यलोपेनाकारलोपस्य बाधा धातुपरत्वाद् अस्य च लोपे यलोप इति । कण्डूञादयोऽत्रादन्ता एव धातवः । यिन्नाय्योरित्यादि । पक्षे समिध्यिता, समिध्यिषीष्ट, दृशधिता, दृशधिषीष्ट । अस्य च लोप इत्यत्र पुनर्लोपग्रहणं पूर्वलोपस्यानित्यत्वार्थम्। अनित्यत्वं च लक्ष्यते इति । द्वियकारपाठाद् वेति । वाग्रहणं पूर्वपक्षार्थम् । 'मव्य, मव बन्धने, सूर्य ई ईर्ष्या ईर्ष्यार्था: ' (१ । १६२, २१२) इति द्वियकारा एव पठ्यन्ते यलोपे पुनर्लोपो न भवति, व्यक्तावपि द्वियकारपाठबलात्, अन्यथा द्वियकारपाठोऽनर्थकः स्यात् श्रुतेरभेदात् । यकारः सस्वर इह गृह्यते इत्येके । आत्मेच्छायां यन् कर्तुराय इति साकारः पठितव्यः ।
ननु ‘दृशदिता, दृशद्यिता' इति विकल्पेऽस्य च लोपस्य बाधा स्यात् तत्प्राप्तावारब्धत्वात् ? सत्यम्, अस्य च लोपो व्यक्तौ भविष्यति मव्यादीनामस्वरस्य कुतः प्रसङ्गः ? इनो लोपेऽयादेशे चेति 'मूत्र प्रस्रवणे' (९ । २२२) इति चौरादिकः " कारितस्यानाम् इड्विकरणे” (३ । ६ । ४४) इति कारितलोपे "अयीर्ये" (३ । ६ । १९) इत्ययादेशे च व्यञ्जनात् परो यकारो भवतीत्यर्थः । एवं 'सूच पैशुन्ये' (९ । १९१) सोसूचिता, 'सूत्र अवमोचने' (९।२२१)- सोसूत्रिता । 'पापच्यते' इति । न विद्यतेऽन् यस्मिन्निति बहुव्रीहौ न अन् ‘अनन्’ इति तत्पुरुषेऽपि प्राप्नोतीति भावः । अथ विषयसप्तम्या एव भविष्यति प्रतिपत्तिरियं गरीयसी स्यात् । यदि व्यञ्जनान्ताद् धातोरिति विशिष्यते तदा चेक्रीयितस्यैव स्यात्, तस्माद् धातोर्यस्येति युक्तम्।। ७२८।
[वि० प० ]
यस्या० । बेभिदितेति । भिदेश्चेक्रीयितम्, इह परत्वाद् अस्य च लोपे यलोप इति । यिन्नाय्योरित्यादि। पक्षे दृशदितेति विकल्पोऽपि वक्ष्यमाणेन पुनर्लोपग्रहणेन पूर्वलोपस्यानित्यत्वादेव भवति। मव्यादीनामिति । 'मव्य मव बन्धने, सूर्क्ष्य ई ईर्ष्या ईष्यार्थाः, शुच्यी चुच्यी अभिषवे' (१ । १६२, २१२, १६४ ) इति मव्यादय: । ' मूत्र प्रस्रवणे' (९ । २२ । २) चुरादित्वादिन् । 'शीङ् स्वप्ने' (२ । ५५), स्वरान्तत्वात् कथं चेक्रीयितस्य लोप इत्याह इनो लोपे अयादेशे चेति । कारितस्य लोपे " अयीर्ये” (३।६।१९) इत्ययादेशे च व्यञ्जनात् परो यकार इति भावः ।। ७२८ ।