________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
२. अथ ‘आत:’ इत्युच्यताम्, तदा प्रतिपत्तिगौरवं स्यादिति (वि० प० ) । ३. इदमपि सिद्धान्तान्तरम्, सन्निपातलक्षणपरिभाषाया ज्ञापकमेतदेव नामिग्रहणम् (बि० टी०) ।
४. सुखार्थमादिग्रहणम् (बि० टी० ) ।
५. नामिग्रहणं सुखार्थं कुर्वन्ति ( बि० टी० ) । ६. अत्र केचित्
३०१
तत्र जातिशब्दोऽयं कठबह्वृचादिजातिर्गृह्यते
(बि० टी० ) ।। ७२२ । [रूपसिद्धि]
(
१. अग्नीयते । अग्नि + आयि + अन् ते। अग्निरिवाचरति । 'अग्नि' शब्द से आचारार्थ में “कर्तुरायिः सलोपश्च " ( ३ । २ । ८) से 'आयि' प्रत्यय, प्रकृत सूत्र से प्रत्यय के आदि आकार का लोप:, नाम्यन्तानां यणायियिन्नाशीश्च्विचेक्रीयितेषु ये दीर्घः " ( ३ । ४ । ७०) से 'अग्नि' शब्द के अन्त में नामिसंज्ञक इकार को दीर्घ, “ते धातव: " ( ३ । २ । १६ ) से 'अग्नीय्' की धातुसंज्ञा, वर्तमानासंज्ञक आत्मनेपद – प्र० पु० – ए० व० 'ते' प्रत्यय तथा "अन् विकरण: कर्तरि" (३। २। ३२) से 'अन्' विकरण ।
२. रैयते। रै + आयि + अन् + ते । रा इवाचरति । रै' शब्द से 'आयि' प्रत्यय, प्रकृत सूत्र से आकारलोप, धातुसंज्ञा, 'ते' प्रत्यय तथा 'अन्' विकरण।
३. विद्वस्यते। विद्वन्स् + आयि + अन् ते। 'विद्वन्स्' शब्द से 'विद्वान् इवाचरति' इस आचार अर्थ में 'आयि' प्रत्यय, आकारलोप, नलोप, धातुसंज्ञा, 'ते' प्रत्यय तथा 'अन्' विकरण |
४. अनडुह्यते। अनड्वाह् + आयि + अन् + ते । अनड्वानिवाचरति। ‘अनड्वाह्’ शब्द से 'आयि' प्रत्यय, आकारलोप, 'वा' को सम्प्रसारण, 'अनडुह्य' की धातुसंज्ञा, 'ते' प्रत्यय तथा ‘अन्’ विकरण ।। ७२२ ।
७२३. गमहनजनखनघसामुपधायाः स्वरादावनण्यगुणे [ ३ । ६ । ४३] [ सूत्रार्थ ]
अभिन्न स्वरादि अगुण प्रत्यय के परे रहते गम्, हन्, जन्, खन् तथा घस् धातु की उपधा का लोप होता है ।। ७२३ ।
[दु० वृ०]
गमादीनामुपधायाः स्वरादाववर्जितेऽगुणे प्रत्यये परे लोपो भवति । जग्मतुः, जग्मुः । जघ्नतुः, जघ्नुः । जनी, जन- - जज्ञे, जज्ञतु:, जज्ञुः । चख्नतुः, चख्नुः। जक्षतुः, जक्षुः। स्वरादाविति किम् ? गम्यते । अनणीति किम् ? अगमत्, अघसत् । अगुण इति किम् ? गमिष्यति ।। ७२३।