________________
३००
कातन्त्रव्याकरणम्
[बि० टी०]
नामि० । विद्वस्यते इति। अत्र "अघुट्स्वरादौ०” (२। २। ४६) इत्यादिना उत्त्वं न भवति। तत्र टीकाकारेण प्रकरणमाश्रितम्। विदुषीवाचरति इत्यायिः, ब्राह्मणीवाचरतीति वृत्तिः। ननु नाम्यन्तत्वादाकारलोपे सति पश्चात् पुंवद्भावे सति 'ब्राह्मणायते' इति स्यादित्याह-ब्राह्मणायते इत्यादि। तर्हि कृते आकारलोपे पुंवद्भावे सति निमित्ताभावन्यायेन आकारे आगते 'ब्राह्मणाय' इति सिद्धम् इति चेत्, न। इदमपि सिद्धान्तान्तरम्, सन्निपातलक्षणपरिभाषाया: ज्ञापकमेतदेव नामिग्रहणमिति हृदि कृत्वाह-सन्निपातलक्षणम् इति। ननु वर्णग्रहणे निमित्तत्वादिति ज्ञापितम् “अकारो दीर्घ घोषवति" (२। १ । १४) इत्यत्र घोषवद्ग्रहणेन, तच्चान्तरेण सन्निपातलक्षणपरिभाषया न सिध्यतीत्याह-न चेति। एतेन तस्य विषयो न भवतीत्यर्थः, आदिग्रहणेन शब्दमात्रत्वात्।
अधुना अन्या फक्किका क्रियते इत्याह-न चान्तरेत्यादि। सुखार्थमादिग्रहणमित्यर्थः। केचित्तु समुदायेन एकामेव पङ्क्तिं कृत्वा नामिग्रहणं सुखार्थं कुर्वन्ति। तन्मते परिभाषावृत्तिर्न लगति। ननु नित्यत्वादिति कथं सङ्गच्छते यावता पुंवद्भावस्य विषयत्वात् तथा जातेरिति निषेध: स्यात्। अत्र केचित् - तत्र जातिशब्दोऽयं कठबढ्चादिजातिर्गृह्यते तत्र कुलचन्द्रप्रभृतयः विद्वस्यते ब्राह्मणीति प्रत्युदाहृतम्, एतदपि विषयीकरोति। अन्यस्तु ब्राह्मणस्य भार्या ब्राह्मणीति पुंयोगादज्येष्ठादिपालकादिति ईप्रत्ययः। तथा च ब्रह्म वेत्तीति ब्राह्मणः, तस्य भार्येत्युच्यते, तन्न, व्यक्तिपक्षे "जातेरस्त्र्याख्यत्वादनजादेः” (कात० परि०-स्त्री० १३) इत्यस्य व्यक्तौ व्यावृत्त्या ईर्न स्यात्। 'ब्रह्म वेत्ति' इत्यत्रापि "वृद्धिनिमित्तस्य" इत्यादेविषयत्वादिति चेत्, "जातेरस्त्र्याख्यत्वादनजादेः" (कात० परि० स्त्री० १३) इत्यस्य जातौ व्यावृत्तिः। यथा 'शूद्री शूद्रस्य भार्या स्याच्छुद्रा तज्जातिरेव च' इत्यमरः। अत: पुंयोगाद् ईप्रत्यय: स्यादेव। अत: पुंवदिति सम्प्रदायः। अथ जातेरस्त्र्याख्यत्वादनजादेरित्यस्य पुंयोगभिन्नव्यक्तौ (पुंयोगाद् भिन्नविभक्तौ) व्यावृत्तिरिति केचित्। यत्त्वादौ कृते व्यञ्जान्तत्वादाकारलोप इति पञ्जी कथं संगच्छते, नाम्यन्तानाम् इति दीर्घस्यान्तरङ्गनित्यत्वाभ्यां बाधकत्वात् ? सत्यम्। अत्र 'ये' इति विशेषणादाकारलोपे सत्येव विषय इत्याहुः।। ७२२ ।
[समीक्षा
'अग्नीयते, हंसायते, श्येनायते, विद्वस्यते' आदि शब्दों के सिद्ध्यर्थ पाणिनि 'क्यङ्-क्यष्' प्रत्यय–दीर्घ आदेश करते हैं, परन्तु शर्ववर्मा ने आयि प्रत्यय-आकारलोप किया है। पाणिनि का प्रमुख सूत्र है- “कर्तुः क्यङ् सलोपश्च'' (अ० ३। १ । ११)। इसके अतिरिक्त भी ७ सूत्र द्रष्टव्य हैं। व्याख्याकारों ने कुलचन्द्र-अमरसिंह आदि के भी मतों का उल्लेख किया है।
[विशेष वचन] १. सन्निपातलक्षणं स्यादिति नामिग्रहणम् (टु० वृ०)।