________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपाद:
२९९ तुल्ये' (२। ५८) धातु से सप्तमीसंज्ञक प्र० पु० - ए० व० 'ईत' प्रत्यय तथा प्रकृत सूत्र से ईकार का लोप।
___५. आदीध्यते। आङ् + दीधीङ् + यण् + ते। 'आङ्' उपसर्गपूर्वक 'दीधीङ् दीप्तिदेवनयो:' (२। ५७) धातु से वर्तमानासंज्ञक प्र० पु० – ए० व० 'ते' प्रत्यय, “सार्वधातुके यण्” (३। २। ३१) से 'यण' प्रत्यय तथा प्रकृत सूत्र से ईकारलोप।
६. आवेव्यते। आङ् + वेवी + य + ते। आङ्' उपसर्गपूर्वक 'वेवीङ् वेतिना तुल्ये' (२। ५८) धातु से वर्तमानासंज्ञक भावकर्थिक प्र०पु०-ए०व० 'ते' प्रत्यय, यण् प्रत्यय तथा ईकारलोप।। ७२१ ।
७२२. नामिव्यञ्जनान्ताद् आयेरादेः [३।६। ४२] [सूत्रार्थ]
नाम्यन्त तथा व्यञ्जनान्त शब्दों से होने वाले 'आयि' प्रत्यय के आकार का लोप होता है।। ७२२।
[दु० वृ०]
नाम्यन्ताद् व्यञ्जनान्ताच्चायेरादेर्लोपो भवति। अग्नीयते, रैयते, विद्वस्यते, अनडुह्यते। ब्राह्मणीवाचरति ब्राह्मणायते। नित्यत्वात् पुंवद्भावः। सन्निपातलक्षणं स्यादिति नामिग्रहणम्।। ७२२।
[दु० टी०] ___नामि० । नामी च व्यञ्जनं च ते अन्ते यस्येति द्वन्द्वात् परं यत् श्रूयते तल्लभते प्रत्येकमभिसम्बन्धमिति सिद्धविभागोऽवसीयते इत्याह-नाम्यन्ताद् व्यञ्जनान्ताच्चेति। 'प्रत्ययस्य सर्वापहारी लोप:' (का० परि० २५) इत्यादिग्रहणम्। अथ किमर्थं नामिग्रहणं यत्त्वादिषु कृतेषु व्यञ्जनान्तत्वात् सिध्यति 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) इति पुन मिग्रहणं स्यादिति भावः। तदयुक्तमित्याह-सन्निपातेत्यादि। 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (का० परि० ३१) इति वर्णग्रहणे निमित्तत्वाद् इत्यपि नोच्यते, यत आदिशब्दोऽनिर्दिष्ट इति।। ७२२ ।
[वि० प०]
नामि० । पंवद्भाव इति। “भाषितस्कं पंवदायौ" (३।६। ६१) इत्यनेनेत्यर्थः। अथ नामिग्रहणं किमर्थम् ? यत्त्वादौ कृते व्यञ्जनान्तत्वादेवाकारलोपे 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) इति पुनर्नामिनः प्रत्यावृत्तौ सिद्धम्। यत् साध्यं तदयुक्तमित्याह-सन्निपातेत्यादि। न च वर्णग्रहणे निमित्तत्वादिति युज्यते वक्तुम् , वर्णकार्यस्यादिग्रहणेन दूषितत्वात्। न चान्तरेण आदिग्रहणं निर्वाहोऽस्ति 'प्रत्ययस्य सर्वापहारी लोपः' (काल परि० २५) इति सर्वस्य लोपप्रसङ्गात्। अथ 'आत:' इत्युच्यताम्, तदा प्रतिपत्तिगौरवं स्यादिति।। ७२२ ।