________________
३०२
कातन्त्रव्याकरणम्
[दु० टी०]
गम० । 'जनी प्रादुर्भावे, जन जनने' (१ । ५३१:२। ८०) अस्वाकर्मकत्वाद् भावे आत्मनेपदमूह्यम्। छान्दसोऽयम् इत्याहुरन्ये। चक्षतुरिति। “अदेर्घस्ल वा परोक्षायाम्" (३। ४। ८०), "अघोषेष्वशिटां प्रथमः' (३। ८। ९), निमित्तात् षत्वम्। अलोप इति कृतेऽप्यभ्यासस्याकारस्य न भविष्यति, स्वरादाविति सप्तमीनिर्देशात्। उपधाग्रहणं स्पष्टार्थमेव तथादिग्रहणं च। व्यपदेशिवद्भावाद् आत्वमस्तीति अनणीत्युच्यते।। ७२३ ।
[वि० प०]
गम० । चक्षतुरिति। "वा परोक्षायाम्" (३। ४। ८०) इत्यदेघस्लु-आदेशे उपधालोपे "अघोषेष्वशिटां प्रथमः" (३। ८ । ९), "शासिवसिघसीनां च" (३। ८। २७) इति षत्वम् ।। ७२३।
[बि० टी०] __ गम० । ननु 'जघ्नतुः, चख्नतुः' इत्यत्र 'धुटां तृतीयः' (२। ३। ६०; ३। ८ । ८) इति तृतीयः कथन्न स्यात्। न च वक्तव्यम् “धुटां तृतीयश्चतुर्थेषु" (३। ८। ८) इति नियमान्न भविष्यति, प्रत्ययचतुर्थेष्विति विधानात्। अन्यथा भृज्जतीत्यत्र कथं तृतीयत्वम्। न च वाच्यम्, स्थानिवद्भावादकारस्य कथं तृतीयत्वम्। तृतीयविधौ ‘न पदान्त०' (का० परि० १०) इत्यादिना प्रतिषेधात् ? सत्यम्। तृतीयेऽपि क्वचित् स्थानिवदित्युक्तं टीकायाम् "धुटां तृतीयः" (२। ३। ६०) इत्यत्रापि।। ७२३ ।
[समीक्षा]
‘जग्मतुः, जघ्नतुः, जज्ञिरे, चख्नतुः, जक्षनुः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'गम्' आदि धातुओं की उपधा का लोप किया गया है। पाणिनि का सूत्र है- “गमहनजनखनघसां लोप: क्ङित्यनङि' (अ० ६। ४। ९८)। 'जन जनने' (२। ८०) धातु का प्रयोग कुछ आचार्य केवल वेद में ही मानते हैं। सूत्र में 'उपधा-आदि' शब्दों का उपादान स्पष्टावबोधार्थ किया गया है।
[विशेष वचन १. उपधाग्रहणं स्पष्टार्थमेव तथादिग्रहणं च (द० टी०)। २. व्यपदेशिवद्भावादात्वमस्तीति अनणीत्युच्यते (दु० टी०)। ३. तृतीयेऽपि क्वचित् स्थानिवदित्युक्तं टीकायाम् (बि० टी०)। [रूपसिद्धि]
१. जग्मतुः। गम् + परोक्षा – अतुस्। 'गम्ल गतौ' (१ । २७९) धातु से परोक्षाविभक्तिसंज्ञक परस्मैपद – प्र० पु० - द्विव० 'अतुस्' प्रत्यय, "चण्परोक्षाचेक्रीयितसनन्तेषु' (३।३। ७) से धातु को द्विवचन, “पूर्वोऽभ्यासः'' (३। ३। ४) से पूर्ववर्ती