________________
तृतीये आख्याताध्याये षष्ठोऽनुषगलोपादिपादः
२९५
[दु० वृ०]
इह धातुप्रस्तावेऽकारसन्ध्यक्षरयोर्वर्णयोः परयोरकारस्य स्थाने तावकारसन्ध्यक्षरे वर्णों भवतः, यथासंख्यं तयोश्च निमित्तभूतयोर्लोपो भवति। चिकीर्षति, दीव्यन्ति, पचन्ते, पचे। अस्येति किम् ? यान्ति। असन्ध्यक्षरयोरिति किम् ? पचति। अस्य लोप इति सिद्धे तौ तल्लोपश्चेति किम् ? पच्यन्ते। नलोपो मा भूत् ।। ७२० ।
[दु० टी०]
असन्ध्य० । इह धातुप्रस्तावे इत्यादि। “अकारे लोपम्" (२। १ । १७) इत्यनेन न सिध्यति, समानलक्षणो दीर्घ: स्यात्, एकारेऽप्यैत्वमिति भावः।। ७२० ।
[वि० प०]
असन्ध्य० । ननु चकारे लोपमिति वचनादकारे परेऽकार एव न विद्यते तत् कथमस्याकारः क्रियते। तदयुक्तम्। लिङ्गविषयत्वात्तस्येति आह – इहेति। तेन समानलक्षणस्य दीर्घस्यैकारेऽप्यैत्वमस्यापवादोऽयमारभ्यते। ताविति तच्छब्दोऽकारसन्ध्यक्षरे नपुंसके परामृशन्नपि पुंल्लिङ्गनिर्दिष्टौ वर्णावित्यध्याहाराद् इति दर्शयन्नाह -अकारसन्ध्यक्षरे वर्णाविति। अस्य लोप इत्यादि। सूत्रं पुन: असन्ध्यक्षरयोरस्य लोप इति। नलोपो मा भूदिति। "आत्मने चानकारात्" (३। ५। ३९) इत्यनेनेत्यर्थः।। ७२०।
[बि० टी०]
असन्ध्य० । द्वन्द्वे स्वपदप्रधानत्वाद् विभक्त्या सह यस्य लिङ्गं भजतेऽत्र विभक्त्या सह सन्ध्यक्षरपदस्य सन्निधानत्वम् । अतस्तस्या विशेषणे नपुंसकत्वं प्राप्नोतीति तत्राह - वर्णा इत्यध्याहारात्। तर्हि द्वन्द्वैकत्वम् इत्यत्र कथम् 'अश्ववडवौ, अश्ववडवाः'। अश्वश्च वडवा चाश्ववडवे, अश्ववडवा इति स्यात्, स्त्रीलिङ्गत्वात्। तत्राह टीकाकारः - केचित् पूर्वपदस्य लिंङ्गं भजन्ते इति तौ तल्लोपश्चेति ज्ञापकात्। अकारसन्ध्यक्षरयो: कृते समासे एकपदस्य लिङ्गं गृहीतमित्यर्थः। यदि वर्णशब्दाध्याहारस्तदा कथमिदं संगच्छते ? सत्यम्, वर्णशब्देनाध्याहार्यपक्षमाश्रित्योक्तम्। अस्येति किमिति वृत्तिः। अवर्णादित्यास्तामिति केचित्। यद् वा तकारस्तदभावे सवर्णस्येति न्यायो मन्यते। अवर्ण इत्यत्र वर्णग्रहणात्, यद्येवं न्यायो मन्यते तदा यान्तीत्यत्र स्यात् । असन्ध्यक्षरयोरिति किमिति वृत्तिः। असन्ध्यक्षरग्रहणाभावे तस्य विशेषणं पदमप्यायातम्। अस्य परस्तल्लोपश्चेति कुर्यादिति हेमकरोमापतिसेनावाहतुः।
पण्डितस्त्वाह – सूत्रं खण्डयित्वा भिन्नयोगं करोमीत्यत्र प्रमाणाभावः। “अस्य तौ तल्लोपश्च" इत्यास्ताम्। अस्यार्थः - अस्य तौ भवतो ययोः प्रत्यययोरनुभूतप्रयोगे तल्लोपश्चेति तयोरनुभूतयोर्लोप इत्यर्थः। तर्हि अनुभूते कि प्रमाणम्, तिशब्दे परे भवतु इत्याह – पचतीत्यादि। अलोप इति सिद्धे इत्यादि। ननु कथमिदमुक्तं यावता "आत्मने चानकारात्" (३। ५। ३९) इत्यत्रानकारग्रहणसामर्थ्यादेकारलोपात् प्राक् प्रतिषेधस्ततोऽसन्ध्यक्षरविधिरित्युक्तम्।