________________
२९४
कातन्त्रव्याकरणम्
[बि० टी० ]
अस्तेः । साविति इकार उच्चारणार्थः इति । ननु किमुक्तम्, किं सकारादौ प्रत्यये, उदस्वित् सकारोऽवयवो यस्य तस्मिन् प्रत्यये न वा सकारान्तप्रत्यये तत्र यदि सकारादौ प्रत्यये इति वक्तव्यं तदा आसीरित्यत्र प्राप्तिरेव नास्तीति ईटि सति ईकारादित्वात् । कथमुक्तं लाक्षणिकत्वादिति । यदि सकारोऽवयवो यस्येति गृह्यते तदा वस्थसोः परयोरेव प्राप्तिः स्यात्। यदि सकारान्ते प्रत्यये इति तथापि पूर्वदोष एव स्यात् । तस्मादत्र सर्वे लालायिताः। तत्राह पण्डितः - युष्मत्कर्तृकग्रहणेन वासा व्यावृत्यते । युष्मत्कर्तृक एकवचनप्रतिपादकः सकारश्च गृह्यते । अत एव आसीरित्यत्रापि स्यात् । तत्राह लाक्षणिकत्वादिति ।। ७१९। [समीक्षा]
-
‘असि, व्यतिसे’ इत्यादि शब्दरूपों के सिद्ध्यर्थ अस्धातुगत सकार का लोप दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है – “तासस्त्योर्लोपः " (अ० ७।४।५०)। अत: उभयत्र समानता है । कातन्त्रव्याख्याकारों ने विविध आचार्यों के मतों का उल्लेख किया है।
[विशेष वचन ]
१. तिपा धातुस्वरूपनिर्देशात् (दु० वृ०) ।
२. सावितीकार इहोच्चारणार्थः प्रतिपत्तव्यः (दु० टी० ; वि० प०; बि० टी० ) । ३. नैतत् सूत्रकारस्य मतम् पाठसुखार्थमेव (दु० टी० ) ।
४. इकारः सुखप्रतिपत्त्यर्थः (दु० टी० ) ।
५. अस्तेः सस्य छन्दसि दृश्यते न भाषायामिति (दु० टी० ) ।
६. एतेन परमतमादर्शितम् (वि० प० ) ।
७. अन्यस्तु मन्यते क्रियाविनिमयेऽर्थेऽस्तेरात्मनेपदमेव नाभिधीयते तदा पारिशेष्यादेव सिरवगम्यते इतीकारः सुखार्थो भवतीति (वि० प० ) ।
[रूपसिद्धि]
१. असि । अस् + अन्लुक् + सि। 'अस भुवि' (२।२८) धातु से वर्तमानाविभक्तिसंज्ञक परस्मैपद म० पु० - ए० व० 'सि' प्रत्यय, "अन् विकरण: कर्तरि’” (३।२।३२) से 'अन्' विकरण, 'अदादेर्लुग् विकरणस्य " ( ३।४।९२) से उसका लुक् तथा प्रकृत सूत्र से सकार का लोप ।। ७१९ ।
७२०. असन्ध्यक्षरयोरस्य तौ तल्लोपश्च [ ३ । ६ । ४० ] [सूत्रार्थ]
यहाँ धातुप्रकरण में अकार - सन्ध्यक्षर वर्ण के परे रहते पूर्ववर्ती अकार के स्थान में अकार अथवा सन्ध्यक्षर वर्ण आदेश तथा परवर्ती अकार - सन्ध्यक्षर वर्ण का लोप भी होता है ।। ७२० ।